________________
शास्त्रार्थकलोपस्कृतः
१५३ उक्ताभेदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायशब्दान्तरघटिसानुपूर्वीज्ञानजन्यतथाविधान्वयचोधे व्यभिचारवारणाय तादृशानुपूर्वीज्ञानानन्तर्यस्य कार्यतावच्छेदककोटाववश्यं निवेशनीयतया तत्र विषयनिवेशे प्रयोजनाभावेन तादृशकार्यतावच्छेदकस्यौव भेदान्वयबोधसाधारण्येनानुपू. :ज्ञानस्य भेदान्वयबोधे हेतुताया अनाधिक्यात् ।
एवं तण्डुलं पचतोत्यादापि पाकादिरूपधात्वर्थे कर्मत्वादिसम्बन्धेन तण्डु लादेरन्वयबोधः स्वोकर्तुमुचितः । कर्मत्वस्य पाकाद्यंशे प्रकारत्वे तत्र सत्र द्वितीयादेः शक्तिकल्पने ताशवाक्यजन्यशाब्दबोधे कमत्वादिसंसगस्याधिकस्य विषयताकल्पने च गौरवात् । तण्डलं पचतोत्यादिवाक्यजन्यशाब्दबोधसामग्रीबलात्तण्डुलः पचतोत्यादावपि तथाविधान्वयबोधापत्तिस्तु न सम्भवति । तादृशान्वयबोधे द्वितोयान्ततण्डुलपदत्वाद्यवच्छिन्नधर्मिकपचतीत्यादिसमभिन्याहारज्ञानस्य हेतुतया तण्डुलः पचतोत्यादी तादृशसामग्रया अप्रसिद्ध । म्प्रकारेण हि मतद्वयवलक्षण्यम् ।
एवञ्च संसर्गतावादिमते राजपदस्य राजसम्बन्धिनि लक्षणायान्द्वयोः पदयोस्सामानाधिकरण्यात्पुरुषविशेष्यकत्वाच्च कर्मधारयत्वमेवेति । ययोः पदजन्यार्थयोरभेदेनान्वयबोधस्तयोः पदयोरपि सामानाधिकरण्यव्यवहारो भवतीति तत्त्वम् ।
नन्वभेदसंसर्गकराजप्रकारकपुरुषविशेष्यकशान्दबुद्धित्वावच्छिन्नम्प्रति राजपुरुष इत्याकारकाकांक्षाज्ञानत्वेन कारणता न सम्भवति नृपपुरुष इत्यादौ ताहशबोधस्य सत्त्वेऽपि आकाङ्क्षाया एव व्यभिचारात् । आकाङ्क्षाज्ञानमात्रमखण्डोपाधिरूपमन्यतमत्वेनाऽपि न कारणत्वम् । नृपराज इत्यानुपूर्वीमच्छन्दानाम्भिन्नत्वात् परस्परजन्यबोधवारणायाऽव्यवहितोत्तरत्वनिवेशेन गुरुभूततादृशशान्दबोधस्यावच्छेदकत्वकल्पनाऽनति विशिटाशयेनाह उक्ताऽभेदान्वयबोध इत्यादोति । स्वत्वसंसर्गकरानप्रकारकः अमेदसं. सर्गक राजसम्बन्धिप्रकारकश्च परुषविशेष्यको यो हि शाब्दबोधस्तत्रोभयत्राच्यवहितो. त्तरस्वस्य विद्यमानत्वेन कार्यकारणताभेदो नास्तीत्यभिप्रायेणाह अनाधिक्यादिति । निरुक्तरीत्या राज्ञः पुरुष इत्यत्र यथा स्वत्वस्य संसर्गत्वन्तथैव रीत्या तण्डुलम्पचतीत्यत्राऽपि द्वितीयार्थकर्मत्त्वत्य संसर्गत्वमेव न प्रकारत्वमित्याशयेनाह एवमिति । कर्म. स्वसम्बन्वेन पाकादावन्वय इति मानसी वृत्तिः ।
द्वितीया कर्मत्वम् कर्मत्वे द्वितीयाविभक्तेश्शक्तिकल्पनम् प्रकारभूतकर्मत्वादेरपि सम्बन्धस्याश्रयत्वादिरूपस्य कल्पनेति विशिष्टं गौरवम् । संसर्गतावादे तु अनुपस्थितस्य कर्मवस्य संसर्गतया भानमाश्रयत्वादिकल्पनञ्च न कर्तव्यम्भवतीति महालाधवमिति । नच तया सामच्या तण्डुलः पचतीत्यत्राऽपि विशेषाऽऽपत्तिरिति वाच्यम् १ पाके तण्डुलान्वयबोधम्प्रति द्वितीयान्तलण्डुलपदसमभिव्याहारस्य कारणत्वाङ्गीकारात् ।