________________
व्युत्पत्तिषादः भवन्मतेऽपि राजपुरुष इत्यादौ तादृशसामग्रोबलाद्राजपदार्थराजसंबन्धिपुरुषपदार्थयोरभेदान्वयबोधस्तादृशसामग्रोवलाद्राज्ञः पुरुष इत्यादापि राजादिपदस्य राजसंपन्ध्यादौ लक्ष्णाग्रहसत्वे तादृशाभेदान्वयबोधप्रसङ्गवारणाय तथाविधानुपूर्वीविशेषज्ञानस्य समासजन्यबोधे हेतु. ताकल्पनस्यावश्यकत्वात् ।
अस्माभिर्भेदान्वयबोध एव तादृशानुपूर्वीविशेषज्ञानस्य हेतुतायाः कल्पनीयत्वात् ।
न चोभयमत एव राजसंबन्धिनि राजपदस्य स्वारसिकलक्षणाप्रहेण राजपुरुष इत्यत्र राजसंबन्धिपुरुषयोरभेदान्वयबोधो भवति ।
इयोस्तु विशेषो यदस्मन्मतेऽसौ समासः षष्ठीतत्परुषो भवन्मते कर्मधारय इति । एवं च पुरुषविशेष्यकाभेदसंसर्गकराजसम्बन्धिप्रकारकबोचे राजपदाव्यवहितोत्तरवर्चिपुरुषपदत्वप्रकारकज्ञानत्वेन हेतुत्वमुभयवादिसिद्धमेव, भेदान्वयबोधे तादृशानुपूर्वीज्ञानहेतुताकल्पनमधिमिति वाच्यम् ? भवन्मतेऽपोति ।
प्रकारतावादिमतेऽपीति । तादृशभेदान्वयबोधेति । राजसम्बन्धी पुरुष इत्यन्वयबोधेत्यर्थः । अस्माभिरिति । संसर्गतावादिभिरित्याशयः । कल्पनीयत्त्वादिति । एवञ्च प्रकृतिप्रत्ययानुपूर्वी रूपविशेषस्यैव नाकाङ्क्षात्त्वमपि तु प्रातिपदिकद्वयाऽव्यवधानघटितानुपूर्वी विशेषस्याऽपीत्याशयः । पुनःप्रकारतावादिभिराशङ्कयते नचोभयमत इति । अस्मन्मत इति-प्रकारतावादिमिते, भवन्मत इति-संसर्गतावादिमत इति । प्रकारतावादिनाम्मते यत्र स्वघटकपदार्थविशेष्यकत्वे सति स्वघटकपदानां स्वोत्तरमुत्पत्तियोग्यविभक्त्यर्थाश्रये लक्षणांविनव सामानाधिकरण्यन्तन कर्मधारयत्वम् । यत्र स्वघटकपदानां स्वोत्तरमुत्पत्तियोग्यविभक्त्यर्थाश्रये लक्षणयैव सामानाधिकरण्यन्तत्र तत्पुरुषत्वम् इति कर्मधारयतत्युरुषयोर्लक्षणम् । राजपुरुष इत्यत्र यद्यभेदसंसर्गकराजप्रकारकपुरुषविशेष्यकवोधस्तदा कर्मधारयत्वं लक्षणाक्रान्तम् । यदि राजसम्बन्धिप्रकारकाभेदसंसर्गकपुरुषविशेष्यकबोधस्तदा षष्ठीतत्पुरुषत्वं लक्षणाक्रान्तम् । स्व घटकपदाथेविशेष्यकल्वे सतीत्यस्य बहुब्रीहिव्यावृत्तिः फलम् । संसर्गतावादिनाम्मते तु यत्र स्वघटकपदार्थविशष्यकत्वे सति स्वघटकपदानां शक्तिलक्षणाभ्यां सामानाधिकरण्यन्तत्र कर्मधारयत्त्वम् । यत्र ताशसामानाधिकरण्यन्नास्ति तत्र समासविशेषे तत्पु रुषत्वमिति तयोर्लक्षणम् । राजा पुरुषः राजसम्बन्धी पुरुष इति वा यद्यभेदसंसर्गको बोधस्तदा कर्मधारयत्वं लक्षणाक्रान्तम् । राजपुरुष इत्यत्र यदि स्वत्वसंसगंकराजप्रकारको राजवान्पुरुष इति बोधस्तदा षष्ठीतत्पुरुषसमासत्वम् उक्तलक्षणाक्रान्तम्। एक