________________
शास्त्रार्थकलोपस्कृतः
१५१
अधेति ।
न हि त तथाविधान्वयबोधोपगमे तत्स्थलीय सामग्रीबहाद्राजा पुरुष इत्यादिष्वपि तथाविधान्वयबोधप्रसङ्गः संभवति । तत्स्थलीयसामग्रन्याः षष्ठयन्तराजपदत्वाद्यवच्छिन्नधर्मिकपुरुषादिपद समभिव्याहाररूपाकाङ्क्षाज्ञानघटततया तदभावादेव तत्र तादृशसामग्रया अभावात् । एवं च राजपुरुष इत्यादिसमासे राजादिपदस्य राजसम्बन्ध्यादिलक्षणास्वीकारोऽपि व्यर्थः, तत्र भेदान्वयबोध स्वीकारेऽपि रहात् ।
क्षतिवि
न च तत्र भेदान्वयबोधाभ्युपगमे तत्स्थलीयसामग्रीबलाद्राजा पुरुष इत्यादावपि तादृशान्वयबोधापत्तिरिति वाच्यम् ? तत्स्थलोयशाब्दबोधे राजपदाव्यवहितोत्तर पुरुषादिपदत्वरूपानुपूर्वीविशेषज्ञानस्य हेतुतयाऽसमासस्थले पुरुषादिपदस्य विभक्तथा राजादिपदव्यवहितत्वात्तादृशानुपूर्वी विशेषज्ञानासम्भवेन तत्र तादृशबोधसामप्रथा असिद्धेः ।
न
थाव्यवधानघटितोक्तानुपूर्वीविशेषज्ञानस्य
च प्रकृतिप्रत्यययोरानुपूर्वीविशेषरूपस्याकाङ्क्षात्वात्प्रातिपदिकद्वहेतुत्वमेव निष्प्रामाणिकमिति
वाक्यम् १
यत्र यादृशशाब्दबोधसामग्री तत्र तादृशशाब्दबोधो जायते इतिरात्येति । उक्तव्युत्पत्तिः नामार्थप्रकारक भेदान्वयबोधम्प्रति प्रत्ययजन्योपस्थितिः कारणमिति व्युत्पत्तिनियुक्तिकैव । खाभिप्रायम्प्रकाशयति नहीति ।
एवेति
यथा राज्ञः पुरुष इत्यत्र भेदान्वयबोधस्तथा राजपुरुष इत्यत्राऽप्यस्तु भेदान्वयबोधे लक्षणास्वीकारो व्यर्थ इति ।
तत्स्थलीयेति - ङसा व्यवधानादिति ।
न च विभक्तेर्निरर्थकत्वाऽभिधानं कथं घटमित्यादिद्वितीयाद्यन्तमात्रप्रयोगोचारणस्थले कर्मत्वं घटीयमितिशाब्दबोधस्येष्टस्याऽसिद्धिः कर्मत्वस्य विशेष्यविधयैव प्रतीतेरतश्च विभक्तेः कर्मत्वादौ शक्तिरावश्यकीति वाच्यम् १ एकविभक्त्यन्तस्थले मानसबोध एवेति सामञ्जस्यात् प्रत्ययानां कर्मत्वादौ शक्तिभ्रमो वा तस्माद् बोध इत्यभिधानाच्च ।
राजपुरुष इत्यत्राकाङ्क्षानुपपत्तिः प्रकारतावादिभिराशङ्कयते नच प्रकृतीत्यादि । निष्प्रामाणिकमिति । एवञ्च समभिव्याहाररूपाकाङ्क्षैव शाब्दप्रयोजिका सा हि राजपुरुष इत्यादाविव राजा पुरुष इत्यत्राऽप्यस्तीतिभेदान्यापत्तिरित्याकृतम् ।