________________
१५०
व्युत्पत्तिवादः। यत्र षष्ठयादिविभक्तरेव स्वारसिकलक्षणया शक्तिभ्रमेण वा पुरुषाउपस्थितिस्तत्र तद्विशेष्यकराजादिपदार्थप्रकारकभेदान्वयबोधः प्रसिद्ध इति चेतहि ? तादृशवोधे तथाविधप्रकृतिप्रत्ययानुपूर्वाविशेषरूपाकासाज्ञानसहकृततत्तद्विभक्तिजन्यपुरुषाद्युपस्थितिघटितसामग्रथा एव ताशबो. धोत्पत्तिनियामकतया सदभावादेव न तदापत्तिः। __ अत एव स्वत्वादिसम्बन्धेन राजादिविशिष्टपुरुषादितात्पयंकतदादिपदघटितात् स सुन्दर इति वाक्यात्पुरुषादिविशेष्यकस्वत्वादिसंसर्गकराजादिप्रकारकशाब्दबोधस्य च प्रसिद्धया राजा पुरुषः सुन्दर इत्यादौ पदार्थोपस्थितियोग्यताज्ञानादिबलात्ताहशशाब्दबोधापत्तिरित्यपि निरस्तम । स सुन्दर इत्यादिवाक्याधीनशाब्दबोधसामग्रथास्तत्पदत्वाद्यवच्छिन्नविशे. ज्यकसुन्दरादिपदसमभिव्याहारज्ञानसहकृततदादिपदजन्यतादृशविशिष्टार्थोपस्थितिघटिततया तदभावादेवापत्त्यभावात् । __ अर्थताहशरीत्यापत्तिवारणे राज्ञः पुरुष इत्यादौ स्वत्वादिसम्बन्धन पुरुषादी राजाद्यन्वयबोधस्वीकारेऽपि क्षतिविरहादुक्तव्युत्पत्तिनियुक्तिका । विभक्तीनां सम्बन्धादिवाचकत्वमपि नियुक्तिकं, नीलोघट इत्यादी विशेषणवाचकपदसमभिव्याहृतविभक्तेरिव सर्वविभिक्तीनां साधुत्वमात्रार्थकत्वस्यवोचितत्वात् ।
क्वचित्प्रसिद्धस्यैव पदार्थस्याऽपत्तिस्सम्भवति अन्यत्र यथा घटपटादे तु शशविषाणादेः । नामार्थप्रकारकनामार्थविशेष्यकभेदान्वयबोधःकाऽपि न प्रसिद्धः, नामार्थयोस्साक्षाभेदान्वयबोधस्याऽव्युत्पन्नत्वात् नामार्थस्य प्रत्ययार्थेन निपातार्थेन च मेदान्वयबोधस्सर्वप्रसिद्धः । एवञ्च राजपदार्थस्य पुरुषपदार्थेन साकं कथम्भेदान्वय इति तात्पर्यम्।
ननु राज्ञ इत्यत्र ङविभक्तरेव स्वारसिकलक्षणया शक्तिभ्रमेण वा यत्र पुरुषोपस्थितिर्जायते तत्र पुरुषविशेष्यकराजप्रकारकभेदान्वयबोधःप्रसिद्ध इति तत्प्रसिद्धरेव राजा पुरुष इत्यत्राऽपत्तिस्स्यादित्याशयेनाइ यत्र षष्ठधादिविभक्तरिति । चेदिति ।
अन्वयव्यतिरेकाभ्यामेव कार्यकारणभावोऽवधार्यते इतिनियमः । राजप्रकारका पुरुषविशेष्यकभेदान्वयबोधे राज इत्याकारकप्रकृतिप्रत्ययानुपूर्वीविशेषरूपाकाङ्क्षासहितङविभक्तिजन्यपुरुषोपस्थितिविशिष्टसामग्रथा एवापादकत्वं सम्भवति तदभावान्नापत्तिः, कारणसत्त्व एव कार्यसम्भवात् सामग्रयनुरोधेनैव शाब्दबोधो नान्याश इत्याशयवानाह अत एवेति ।
---
---
-
-
----