________________
शास्त्रार्थकलोपस्कृतः
१४९ यत्र कुत्रचित्प्रत्ययादेव लक्षणादिना पुरुषाधुपस्थितिनिरूपितप्रत्ययजन्यतावच्छेदकोभूतविशेष्यतातः पुरुषादिपदजन्यपुरुषाधुपस्थितिविशेष्यताया अभिन्नतया तावताप्युक्तातिप्रसङ्गवारणासम्भवादिति चेन्न ? स्वजनकज्ञानोयमत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्बन्धेनैवोपस्थि. तेर्हेतुतयोक्तसम्हालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यतायाश्च ता.
शोपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतासामानाधिकर.. 'ण्यविरहान्नातिप्रसङ्ग इति वदन्ति ।
तदसत् । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्य दुर्वधतया उक्तकार्यकारणभावकल्पनाया असम्भवात् ।
राजसम्बन्धः पुरुष इत्यादौ सम्बन्धादिपदे उसपदत्त्वादिभ्रमदशायां संबन्धादिविशेष्यकराजादिपदार्थप्रकारकान्वयबोधानुपपत्तेः राज्ञः पुरुष इत्यादौ सपदादिषु संबन्धादिपदत्वभ्रमदशायां सम्बन्धांशे गजादिप्रकारकान्वयबोधापत्तश्च । न च प्रत्ययत्वेन ज्ञातं यत्पदं तत्पदजन्योपस्थितेः कारणत्वादेतहोषद्वयस्य नावकाश इति वाच्यम् ? राज्ञः पुरुष इत्यादौ षष्ठयादेः प्रत्ययत्वाद्यनुपस्थितिरशायामपि आनुपूर्वीवि. शेषप्रकारकज्ञानाधीनतदर्थोपस्थितिसत्त्वे शाब्दबोधोत्पत्त्या प्रत्ययत्वप्रकारकज्ञाननिवेशासंभवात् । इदं पुनरत्र तत्वम् । राजा पुरुष इत्यादौ पुरुषादिविशेष्यकराजादिप्रकारकभेदान्वयबोधस्याऽमसिद्ध्यैव नापत्तिसंभवः।
वास्ति तन्नरूपकोपस्थितिभेदेऽपि विषयताभेदे मानाऽभावात् । एवञ्च प्रत्ययजन्यतावच्छेदकीभूता पुरुषत्वावच्छिन्ना, तेन सन्बन्धेन प्रत्ययजन्यपर्वोक्तसमहालम्बनोपस्थितेः पुरुषे सत्त्वाद्राजभेदान्वयाऽपत्तिदुर्वारैवेति ।
आपत्तिन्निवारयति स्वजनकज्ञानीयेतिग्रन्थेन । अर्थाद्राजा पुरुष इत्यत्र नामार्थप्रकारकनामार्थविशेष्यकभेदान्वयबोधो नैव भविष्यतीत्याशयेनोक्तन्नातीति । ना. मार्थप्रकारकभेदान्वयबोधम्प्रति स्वननकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्बन्धेनोपस्थितिः कारणम् । स्वं समूहालम्बनोपस्थितिःतजनक वाच्यतासम्बन्धन वृत्तिज्ञानं पुरुषः पुरुषपदवान् इति शानम्प्रत्ययार्थः । उक्तकार्यकारणभावेन पुरुषे प्रत्ययजन्योपस्थिति स्ति नातः पुरुषे राजपदार्थान्वय इति भावः । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्येति ।
नचोक्तरूपेण प्रत्ययत्वाऽज्ञानेऽपि वास्तविकरूपेण प्रत्ययवृत्तिप्रकारता वर्तत एव, तन्निरूपितविशेष्यतासम्बन्धेनेति कथने दोषमाह राजसम्बन्धःपुरुष इत्यादि । अत्र सम्बन्धपदे ङस्वभ्रभेऽपि तद्वृत्तिप्रकारतायां प्रत्ययवृत्तित्वाऽभावात् ।