________________
व्युत्पत्तिवादः। न च प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासम्बन्धेनोपस्थितेहेतुत्वोपगमान्नानुपपत्तिः । ताशसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यताया नाम्न एव जन्यतावच्छेदकत्वादिति वाच्यम् ? ज्ञानभेदेन विशेष्यताभेदाभावात् ।
निरुक्तरीत्या राजप्रकारकभेदान्वयबोधे निवारितेऽपि कदाचिद्राजा पुरुष इत्यत्र पुरुषपदेन पुरुषत्वावच्छिन्नोपस्थितिस्तदुत्तरसुप्रत्ययेनैकत्वोपस्थितिस्तदा पुरुष एकत्वञ्चति समहालम्बनात्मिकोपस्थितिरेवञ्च सा यथा पुरुषपदजन्या तथा सुप्रत्ययजन्याऽपि, ताहशप्रत्ययजन्योपस्थितिविषयत्वं यथा प्रत्ययार्थैकत्वस्याऽस्ति तथा पुरुषस्याऽप्यस्त्येवेति प्रकारेण प्रत्ययजन्योपस्थितेविशेष्यतासम्बन्धेन पुरुषेऽपि विद्यमानत्वात्तस्य पुरु. षस्य राजप्रकारकमेदान्वयबोधे विशेष्यतासम्बन्धेन मानं स्यादेव ! राजा पुरुष इत्यत्र राजपदार्थप्रकारकपुरुषविशेष्यकभेदान्वयबोधापत्तिारै वेत्याशयेनाशकते अथैवमाप यत्र राजा पुरुष इति । भेदान्वयनोधाऽपत्तिन्निवारयति चेत्यादिग्रन्थेन । इद माकूतम् , नामार्थप्रकारकभेदान्वयबोधत्वावच्छिन्नम्प्रति प्रत्ययजन्यतावच्छेदकीभूतवि. शेष्यसासम्बन्धेनोपस्थितिः कारणमर्थात् यत्र प्रत्ययजन्यतावच्छेदकीभूतविशेष्यता. सम्बन्धेन विशेष्यत्वेनाश्रीयमाणपदायें प्रत्ययजन्योपस्थितिभवति तत्रैव तत्पदार्थवि. शेष्यककिञ्चिन्नामार्थप्रकारकमेदान्वयबोधो भवतीतिनियमः । प्रत्ययजन्यतावच्छेदकीभूतेत्यस्यार्थस्तु प्रत्ययजन्या या उपस्थितिस्तन्निष्ठा या प्रत्ययजन्यता तदवच्छेदकत्वमत्र विशेष्यनिष्ठविशेष्यतायामरस्त्येव । रवनिरूपितविषयतासम्बन्धेन विशेष्यपदा. र्थनिष्ठा विशे ष्यता चोपस्थितौ विद्यते । एवञ्च शाब्दबोधीयविशेष्यतासम्बन्धेन प्रतीयमाना विशेष्यता स्वनिरूपितविषयितासम्बन्धेनोपस्थिताविति सामानाधिकरण्यसम्बन्धेनोपस्थितिनिष्ठप्रत्ययजन्यताया अवच्छेदिका जातेति । एवञ्च राजा पुरुष इत्यत्र पुरुषोपस्थितिः पुरुषेति नामपदजन्यैव न प्रत्ययजन्येतिपुरुषविषयकोपस्थिती प्रत्ययजन्यतैव नास्तीति पुरुषनिष्ठा विशेष्यता स्वनिरूपितवियितासम्बन्धेनोपस्थिती विद्यमानाऽपि कथम्प्रत्ययजन्यतावच्छेदिका स्यात् नाम्न एव जन्यतावच्छेदकत्वेन प्रवृत्तत्वादिति । पुनः प्रतिवादी परिहरन्नुक्तभेदान्वयबोधमादर्शयति ज्ञानभेदेनेत्यादिग्रन्थेन ।
अयमभिप्रायः, देवदत्ताद्यनेकपुरुषैध है एकस्मिन् ज्ञातेऽपि देवदत्ताद्यनेकपुरुषसमवेतैकघटविषयकज्ञानस्य देवदत्तादिपरषभेदेन भेदेऽपि यथा नैव घटभेदो भवति तथा शानभेदेन घटनिष्ठा या विशेष्यता तस्या अपि भेदो न भवति 'विशेष्यभेदेनैव विशेभ्यः ताया भेद' इतिनियमात् । अयमाशयः, कदाचित् ङसप्रत्ययेन पुरुषत्वावच्छिन्नोप. स्थितिलक्षणादिना जाता तत्र प्रत्ययजन्यतावच्छेदकीभूता पुरुषत्वावच्छिन्ना विशे. ध्यता, सा च समूहालम्बनोपस्थितीयपुरुषत्वावच्छिन्ना विशेष्यता अवच्छेदकैक्यादेकै