________________
शास्त्रार्थकलोपस्कृतः
१४७ तत्तनामपदजन्यतत्तन्नामार्थप्रकारकशाब्दबोधत्वावच्छिन्नं प्रति प्रत्यय जन्योपस्थितित्वेन हेतुत्वेऽपि राजसम्बन्धः प्रमेयः राज्ञः पुरुष इत्येहशवाक्यद्वयजन्यवाक्यार्थद्वयान्वयबोधे पुरुषस्य राजसम्बन्धविशेष्यतया भानानुपपत्तिरिति वाच्यम् ?
प्रत्ययाधीनतत्तत्पदार्थोपस्थित्य जन्यतदर्थप्रकारकशाब्दत्वावच्छिन्नं प्रत्येव त्ययजन्योपस्थितेः समानविशेष्यताप्रत्यासत्या हेतुत्वोपगमात् ।।
अथैवमपि यत्र राजा पुरुष इत्यत्र पुरुषपदाधीनपुरुषोपस्थितौ प्रत्ययवशात्कश्चित्प्रत्ययार्थोऽपि विषयोभूतः तत्र प्रत्ययजन्यतथाविधसम्. हालम्बनोपस्थितेर्विशेष्यतासम्बन्धेन पुरुषेऽपि सत्त्वात्तस्य राजप्रकारकान्वयबोधे विशेष्यतया भानापत्तिदुर्वारैव ।
AGAINMFe
तत्तन्नामपदजन्येति । F योऽसौ नामार्थप्रकारकशाब्दबोध इष्यते स यदा प्रकारीभूतनामार्थवाचकनामपदज न्योभवति तदा तादशशाब्दबोधम्प्रत्येव प्रत्ययजन्योपस्थितेः कारणत्वं स्वत्वोपस्थिति
स्पदजन्यैव नतु नामपदजन्येति पुरुषे प्रकारीभूतं यत्स्वत्वन्तस्य तद्वाचकस्वत्त्वादिलामपदजन्यत्वाऽभावान्नात्र प्रत्ययजन्योपस्थितेःकारणत्वमतःपुरुषस्य प्रत्ययजन्योपस्थितिविषयत्वाऽभावेऽपि विशेष्यतासम्बन्धेन बोधे न क्षतिरित्याशयेनाह तत्तदिति । निवेशेऽपि दोषमाह-राजसम्वन्धेति । अयमभिप्रायः, तत्तन्नामपदजज्येतिनियमस्वीकारेऽपि राजसम्बन्धःप्रमेयः राशःपुरुष इत्याकारको यत्सम्हालम्बनात्मकशाब्दस्तत्र पुरुषस्य राजप्सम्बन्धविशेष्यत्वेन या प्रतीतिरिष्यते सा न स्यात् सम्बन्धपदबन्यत्वहस्पदजन्यत्वयोस्तुल्यत्वात् । सम्बन्धेति नामपदजन्यत्वे सम्बन्धेति नामार्थस्वत्वप्रकारकत्वाच्च । प्रत्ययजन्योपस्थित्यभावेन पुरुषपदार्थस्य विशेष्यतासम्बन्धेन भानन्न स्यादितिपूर्वपक्षिणामाशयः । परिहारन्दर्शयति प्रत्ययाधोनेति । कार्यकारणभावे तन्नामपदजन्यत्वन्न देयम् किन्तु प्रत्ययाधीनतदर्थोपस्थित्यजन्यो सस्तन्नामार्थप्रकारकशाब्दबोधः, विशेष्यतासम्बन्धेन तदुत्पत्चौ विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितिःकारणम् । एवञ्चोक्तसमूहालम्बनबोधे सम्बन्धरूपनामार्थसत्त्वेऽपि ङस्प्रत्ययाधीनस्वत्वोपस्थितिजन्यत्वस्यैव विद्यमानत्त्वेन कार्यतावच्छेदकानाक्रातत्वेन तत्र पुरुषस्य विशेष्यतासम्बन्धेन भाने क्षतिविरहात् ।
किञ्च प्रत्ययाधीनोपस्थितिविषयत्वाऽप्रयोज्यभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितिः कारगमिति कार्यकारणभावे तात्पर्यम् । लथैवमपि यत्र राजेति । कार्यतावच्छेदकं विचार्य कारणकोटिविचारम्प्रस्तौति, ननु राजा पुरुष इत्यादी