________________
शास्त्राथकलोपस्कृतः
१६५ न्धेन राजसम्बन्धिविशिष्टपुरुषे तात्पर्यग्रहसत्त्वे भवन्मतेऽपि कर्मधारय. त्वेनाभिमतात्तथाविधसमासवाक्यात्तादृशशाब्दबोधस्वीकारस्यावश्यकत. या तादृशसामग्रोप्रतिबन्धकताया उभयमतसिद्धत्वात् ।
यत्त दधि पश्य इत्यादौ लुप्तद्वितीयाविभक्तिस्मरणेन दधिकर्मकदर्शनबोधवदाजपुरुष इत्यादावपि लुप्रषष्ठीविभक्तिस्मरणेन राजसम्बन्धप्रकारकभेदान्वयबोधनिर्वाहे राजसम्बन्धिनि निरूढलक्षणां स्वोकृत्याभेदान्वयबोधोपगमो निरर्थकः । न च षष्ठीतत्पुरुषादिस्थलेऽपि लुप्तविभक्तिस्मरण एव चेदन्वयबोधस्तदा ऋद्धस्य गजमातङ्गा इत्यादिप्रयोगापत्तिस्तत्र मातङ्गादौ राजादोनामन्वयवाघोपपत्तये राजादिपदोत्तरषष्ठयादिविभक्त्यनुसन्धानस्यावश्यकत्वेन समानविभक्तिकतया राजादौ ऋद्धादिपदार्थस्याभेदान्वय. योधसम्भवादिति वाच्यम् ?
यतस्तत्र ऋद्धराजादीनामभेदान्वयबोधानुपपत्त्या नाभियुक्तानामप्रयोगः, अपि तु समासाघटकपदसापेक्षतया राजपदस्यासामोतिदेशात्समासासाधुत्वेन । तत्सापेक्षत्वं च तदर्थान्वितस्वार्थपरत्वं, स्वार्थश्च स्वीयवृत्तिप्रहविशेष्यः । ___ अत एव शरैः शातितपत्रश्चै त्रस्य दासभार्येत्यादौ न समस्यजप्रकारकपुरुषविशेष्यकशाब्दबोधसामग्रथास्संसर्गतावादिनाम्मते प्रतिबन्धकत्वमधिकमेवेति प्रकारतावादिमतमेव युक्त तरमिति तत्त्वम् । न च प्रकारतापक्षे लाघवेऽपि
चैत्री ग्रामगतस्तत्र मैत्रः किं क्रियतेऽधुना ।
दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः ॥ इति पद्येषु तत्पदेनेष्टपरामर्शो न स्यादिति वाच्यम् १ समासस्थले तत्पदस्य लक्ष्यार्थघटकविभक्त्यर्थविशेषणीभूतार्थपरामर्शकत्वमिति व्युत्पत्त्यन्तरेण निर्वाहात् । किञ्च "दाणश्च सा चेञ्चतुर्थ्यर्थं" इति सूत्रे तत्पदेनाऽप्रधानतृतीयापरामर्शात्सर्वनाम्नामुत्सगतो बुद्धिस्थमात्रपरामर्शकत्वन्न तु प्रधानाऽप्रधाननियम इति विधानाच्च।
किञ्च भाटरहस्यादिग्रन्थे खण्डदेवादिमीमांसकैरपि प्रकारतापक्षस्यैव स्वीकृतत्वाच्च । संसर्गतावादिनच जगदीशतर्कालकारन्यायकौस्तुभकारादय एव, ते च लाप. वाननुयायित्वेन पराभूता इति । तस्मात्प्रकारतापक्ष एव युक्त इति सोपानः । प्रकारतापक्षे नवविधो बाधस्संसर्गतापक्षे त्रिविधी बाध इति मैथिलकल्पनायान्तु संसर्गतावादिन एव विजयन्ते ।
पुनः परिहाराय संसर्गतावादिवचनमनुवदति यविति। तच्चाऽसदित्यनेन सम्बद्धम् । अतिदेशादिति । सापेक्षमसमर्थवदिति भाष्यादित्याशयः ।
अतएवेति । तदर्थान्वितस्वीयवृत्तिग्रहमुख्यविशेष्यपरत्वस्य तत्सापेक्षत्वात्मक