________________
१६६
व्युत्पत्सिवादः । मानशातितदासपदादेः सापेक्षता । तदर्थेकदेशशातनदासत्वादावेव शरकरणकस्वचैत्रनिरूपितत्वादोनामन्वयात् । तदर्थान्वितेत्यत्राभेदान्वयो वा निवेशनीय इति ।
तदसत् । स्वारसिकलक्षणाग्रहस्थलानुरोधेन तादृशसभिव्याहारज्ञानादेस्तथाविधबोधजनकतायाः क्लप्तत्वात्तत्र निरूढलणास्वीकारे गौरवाभावात् । यत्र राजपदस्य राजसम्बन्धिनि स्वारसिकलक्षणाग्रहस्तन्न तादृश. बोधस्योभयमतसिद्धतया तादृशसमभिव्याहारज्ञानस्य राजसम्बन्ध्यभिन्नपुरुषबोधे कारणतायाः क्लप्तत्वात् , तयव निर्वाहेण सर्वत्र लुप्तविभक्तिस्मरणकल्पने भानाभावात् ।
न च स्वारसिकलक्षणाग्रहस्थले तत्र तादृशान्वयबोधस्योभयवादिसिद्धत्वेऽपि निरूढलक्षणामते सम्बन्धितात्पर्य स्यानादित्वकल्पनागौरवम् । अनादितात्पर्य विषयोभूताथनिष्ठलक्षणाया एव निरूढलक्षणात्वादिति वा. च्यम् ? राजपुरुष इत्यादिवाक्यजन्यशाब्दबोधात्पूर्व नियमतो लुप्तविभक्तिस्मरणकल्पनापेक्षया तात्पर्यम्यानादित्वकल्पनायां गौरवविरहादिति । न चैर्व दधि पश्यतीत्यादावपि दध्यादिपदस्य दधिकमेकादौ लक्षणां स्वीकृत्य धात्व. फैन समं तस्याभेदान्वयबोधोपपादनसम्भवात्तत्रापि लुविभक्तिम्मरणकल्पनमनुचितमिति वाच्यम् ? दध्यादिपदस्य दधिकर्मकादौ लक्षणाग्रहदशायामपि तस्य द्वितीयेतरविभक्त्यन्तत्वभ्रमदशायां दधिकर्मकः पश्यति, दधिकर्मकेण पश्यतीत्यादाविव उक्तस्थलेऽपि दधिकर्मकदर्शनान्वयबोधा
नुदयात् ।
भवन्मते दधिकर्मकः पश्यतोत्यत्र दधि पश्यतीतिस्थलीयदधिपदोत्तरपश्यतिपदत्वरूपाकांक्षाज्ञानादिघटितसामग्रोसत्त्वाद्दधिकर्मकदर्शना.
त्वादेवेतिफलाद् अमेदान्वयो वा निवेशनीय इति । अभेदेन तदर्थान्वितस्वार्थकत्वमेव हि तत्सापेक्षत्वम् । तथा च वृत्तिग्रहमुख्यविशेष्यत्वरूपं सापेक्षत्वन्नव वर्णनीयम् ? प्रयोबनाऽभावात् । तथा च स्वीयवृत्त्युपस्थाप्यत्वमेव तदित्याकूतम् । ___ तादृशसमभिव्याहारज्ञानादेरिति । राजपुरुष इत्येवं विधसमभिव्याहारज्ञानादेरित्याशयः ।
कल्पनायां गौरवविरहानिति । यदि लुप्तविभक्तिस्मरणस्य हेतुत्वन्तदा तस्य राजपुरुष इति वाक्यजन्यबोधात्पूर्व सर्वत्रैव स्थितियुक्तैव स्यात् । तथैव विभिन्न विषयकप्रत्यक्षप्रतिबन्धकतायामपि लुप्तविभक्तिस्मरणसामग्रथा अपि कारणत्वापत्तावतिगौरवम् । अनादित्वशानस्य कारणत्वाभावेन शाब्दबोधात्पूर्वन्न तदपेक्षेति न गौरवम् ।
भवन्मते इति । दधिकर्म के लक्षणास्वीकारमत इति । अन्वयस्याऽपत्तेरिति ।