________________
शास्त्रार्थकलोपस्कृतः न्वयस्यापत्तेद्वितीयान्तदध्यादिपदत्वावच्छिन्नधर्मिकतादृशधात्वादिसमभि.. व्याहारज्ञानस्य तादृशान्वयबोधे हेतुताया आवश्यकत्वात्। दधि पश्यतीत्यादौ लुप्तद्वितीयानुसन्धानस्यावश्यकत्वात्। राजसम्बन्धिपुरुषाद्यन्वयबोधे च राजाव्यवहितोत्तरपुरुषादित्वप्रकारकज्ञानस्य हेतुतायाः स्वारसिकल्लक्षणाग्रहस्थलानुरोधेनावश्यकल्पनीयतया राजपुरुष इत्यादौ राजादिपदस्य तृतीयाद्यन्तत्वभ्रमदशायां राजसम्बन्धिपुरुषाद्यन्वयबोधापत्त्यसम्भवात् । तृतीयादिविभक्तया व्यवधानात् । दधि पश्यतीत्यादौ दधिपदाव्यवहितोत्तरत्वप्रकारकधातुपदज्ञानस्य हेतुताया अष्लमत्वात् । पश्यति दधि, पश्यति चैत्रो दधि, इत्यादायपि दधिकर्मकदर्शनान्वयबोधात तादृशज्ञानहेतुताया अशक्य कल्पनीयत्वाञ्चेति । ___ तण्डुलं पचतोत्यादौ तण्डुलादिपदस्यैष तण्डुलादिकर्मके लक्षणा, विभक्तिस्तु साधुत्वार्था, एवं राज्ञः पुरुष इत्यादापि राजादिपदस्य सम्बमध्यादी लक्षणा, विभक्तिः साधुत्वार्था । तत्तद्विभक्तयन्तसमभिव्याहारस्य तत्तल्लाक्षणिकार्थबोधनियामकत्वान्नातिप्रसङ्गः। विभक्तरेव प्रकृत्यर्थविशेषितस्वार्थे लक्षणेति तु न संभवति ?
विभक्तः कुत्रापि शत्ते रक्लप्ततया तत्र शक्यसम्बन्धरूपलक्षणाया असंभवात् । तण्डुलः प्रमेय इत्वादी विभक्तयामिश्रितस्यैव प्रकृत्यर्थस्य भानात् । प्रकृतिशक्तः स्वार्थ क्लप्ततया तत्र लक्षणासम्भवादिति तु चिन्तनीयमू।
राजादिपदस्य राजसम्बन्ध्यादौ शक्तत्वभ्रमदशामिव तदर्थलक्षणाप्रहदशायामपि राजसम्बन्धिनः पुरुष इत्यादाविव राजसम्बन्धि सम्बन्धी पुरुष इत्याद्यन्वयबोधस्य सर्वजनानुभवसिद्धत्वात् । पचति चैत्र
अन्वयबोधस्यापत्तेरिति भावः। तृतीयान्तस्वभ्रमे दोषवारणाय द्वितीयेतरविभक्त्यन्तज्ञानस्य प्रतिबन्धकत्वे त्वतिगौरवमापद्येत ।
तण्डुलं पवतीत्यादाविति-इत आरम्य इति तु चिन्तनीयमिति प्राक् प्रश्नग्रन्थः। विभक्तः कुत्राऽपि शक्तरिति-न चैकत्वद्वित्वादी कत्त स्वकर्मत्यादौ च शक्तिरस्त्येव स्वादिविभक्तः।
एवन्तण्डुलः प्रमेय इत्यत्रोक्तरीतिरपि न युक्ता १ तत्रैकत्वशक्तिमत्यास्सुविभक्ते. स्तण्डुले जहत्स्वार्थलक्षणासम्भव इति वाच्यम् ? राजपुरुष इत्यादी राजादिपदोत्तरविभक्तिज्ञानाऽभावेऽपि शाब्दबोधस्यानुभवसिद्धत्वात् प्रकृत्यर्थशक्तेरेव युक्तियुक्तत्वात् ।।
सवजनानुभवसिद्धत्वात् इति-तथा च विभक्तिशक्ति विनोक्तबोधानुपपत्त्या विभक्तिशक्तियुक्तैवेति ।