________________
.९६८
व्युत्पत्तिवादः। इत्यादावपि कृतिसम्बन्धेन पाकादेश्चैत्राद्यशे विशेषणत्वोपगमे चैत्रो न पचतीत्यादावन्वयधोधानुपपत्तिद्रष्टव्या, कृतिसम्बन्धस्यापि वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नप्रतियोंगिकाभावस्याप्रसिद्ध या तद्वोधना. सम्भवात् ।
अथैवमपि चैत्रो जानातोत्यादौ चैत्रायंशे ज्ञानादेराश्रयतासम्बन्वेनान्वयवोधोपगमे क्षतिविरहः। श्राश्रयतासम्बन्धस्याभावप्रतियोगितावच्छेदकतया न जानाति चैत्र इत्यादावाश्रयतासम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाद्यभावस्यैव भानसम्भवात् । तथा च तत्राख्यातस्याश्रयस्वार्थकत्वं नियुक्तिकम् । न च धात्वर्थज्ञानादेराश्रयतासम्बन्धेन चेत्रादिरूपप्रातिपदिकार्थे साक्षात्प्रकारकत्वोपगमे ज्ञानं चैत्र इत्यादावपि तथान्वयबोधापत्तिरिति वाच्यम् ? तादृशान्वयबोधे आख्यातान्तधातुसमभिव्याहारज्ञानस्य हेतुत्वात् । भवतोप्याश्रयताप्रकारकबोधे तादृशसमभिव्याहारज्ञानस्य हेतुताया आवश्यकत्वात् । यत्तु पचति चैत्र इत्यादौ पाककृतिमांश्चैत्र इत्याकारकाख्यातार्थप्रकारकशाब्दबोधोत्पत्त्या तत्रा. ख्यातजन्यकृत्युपस्थितेहेतुत्वकल्पनमावश्यकम् । तथा च तत्तदर्थविशेषान्निवेश्यात्मनिष्ठप्रत्यासत्त्या पदार्थोपस्थितेहेतुत्वकल्पने शक्यलक्ष्यसहस्रार्थभेदेनाख्यातजन्योपस्थितेः कारणताबाहुल्यमित्यर्थविशेषाननिवेश्य धात्वर्थप्रकारकान्वयबोधं प्रति प्रत्ययजन्योपस्थितेः समानविशेष्यताप्रत्यासत्त्यैव हेतुत्वमुपेयते। तथा च ताशकारणबाधेन चैत्रादेर्धात्वर्थज्ञानविशेष्यतया भानं न सम्भवति । यदि च धातुत्वप्रत्ययत्वादोनामनुगताना दुनिर्वचतया नैतारशानुगतकार्यकारणभावकल्पनं सम्भवतोति मन्यते तदापि यत्र ज्ञाधातोरेव पाकादौ लक्षणा तत्र जानातोत्यादिवाक्यात्पाककृत्यादिप्रकारकान्वयबोधोत्पत्त्या ज्ञाधात्वर्थप्रकारकान्वयबोधे तदव्यवहितोत्तरतिप्त्वादिप्रकारकज्ञानजन्योपस्थितेः समानविशे. व्यत्वप्रत्यासत्या हेतुतायास्तत्र कल्पनीयतया तादृशकारणबाधाञ्चत्रो जानातोत्यादौ चैत्रादेनिविशेष्यतया भानानुपात्तर्दुर्वारैवेति । तदप्य. सत् । प्रत्ययान्तरार्थविशेष्यकशाब्दबोधे व्यभिचारवारणाय तादृशोप
ज्ञानाश्रयश्चैत्र इति बोधे शङ्कते अथैवमपोति । वृत्त्यनियामकसम्बन्धस्याऽभा. वप्रतियोगिताऽनवच्छेदकत्वेऽपीत्यर्थः। कृतिसम्बन्धस्य वृत्यनियामकत्वेन न पचति चैत्र इत्यत्र शाब्दबोधानुपपत्त्याऽऽख्यातस्य कृत्यर्थकतया सार्थक्यसम्भवेऽपि आश्रयतासम्बन्धस्य वृत्तिनियामकत्वेन चैत्रो न जानातीत्यादौ आश्रयतासम्बन्धावच्छि नप्रतियोगिताकज्ञानाऽभाववॉश्चैत्र इति शाब्दबोधसम्भवेन आख्यातस्याभयार्यकत्वकल्पनन्नियुक्तिकमित्याशङ्कते अथैवमपीति ।