________________
शास्त्रार्थ कलोपस्कृतः ।
१६९
स्थितिवैशिष्टयस्य तादृशोपस्थितिजन्यतावच्छेदककोटौ अवश्यं निवेशनीयतया तदनुत्तरंशाब्दबोधे चैत्रादेर्ज्ञानादिविशेष्यतया भाने तादृशकारणबांधस्याकिञ्चित्करत्वात् । तादृशानुपूर्वीघटकज्ञादिधातुजन्यज्ञानाद्युपस्थितिचेत्रादिरूपविशेष्योपस्थितियोग्यताज्ञानादिघटितसामग्रथा आश्रयता संसर्गकशाब्दबोधजनने बाधकाभावात् ।
नचैतन्मते आश्रयतासम्बन्धेन ज्ञानादिप्रकारकशाब्दबोघे ताद्वशयोग्यताज्ञानहेतुत्वान्तरकल्पनाधिक्यम् आश्रयतासम्बन्धेन ज्ञानविशिष्टचैत्रादितापर्यकात्सर्वनाम्नः सांकेतिकशब्दान्तराद्वा ताद्वशसम्बन्धेन ज्ञानादिप्रकारकचैत्रादिविशेष्यकशाब्दबोधस्य सर्वमत एव प्रसिद्धावपि ताद्वशशाब्दबोधे पदार्थान्तरमाननैयत्येन तम्मिश्रितयोग्यताज्ञानस्य तत्र हेतुताया आवश्यकस्वात् । ज्ञानादिविशिष्टचैत्रादिमात्रविषयक योग्यताज्ञानस्य ज्ञानादिविशिष्टचैत्रादिविषयकशाब्दबोधे हेतुतायाः कुत्राप्यक्लप्तत्वादिति वाच्यम् ? भवन्मतेऽपि ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकशाब्दबोधे तथाविधयोग्यताज्ञानहेतुताया आधिक्यात् । आश्रयता संसर्गकज्ञानीयकारणतावच्छेदकस्य तदीयसंसर्गविषयताघटिततत्प्रकारकज्ञानकारणतावच्छेदकापेक्षयां लघुशरीरतया आश्रयतायाः संसर्गतामतस्यैव लघुत्वात् । न च यत्राश्रयत्वे ज्ञाधातुसमभिव्याहृताख्यातस्य शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र ज्ञानाश्रयता प्रकार कशाब्दबोधस्योभयमतसिद्धतया तत्र तादृशयोग्यताज्ञानहेतुत्वमुभयमतसिद्धमेवेति वाच्यम् ? आश्रयतायाः संसर्गतावादिना तत्राप्याश्रयताप्रका रकबोधस्यानभ्युपगन्तव्यत्वादिति चेत् ? सत्यम् । एतदभिप्रायेणैव जानातीत्यादावाख्यातस्य निरर्थकतां मणिकार ऊरोचकार । तत्राश्रयत्वे निरूढलक्षणामभ्युपगच्छतां दीधितिकाराणां पुनरेष आशयः ।
यत्र ज्ञाधातोर्ज्ञानाश्रयत्वे शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र चैत्राद्यंशे धात्वर्थकदेशस्य ज्ञानादेरन्वयानुपपत्त्या स्वरूपसम्बन्धेन ज्ञानाश्रयताप्रकारक चैत्रादिविशेष्यकान्वथबोध एव तत्र मणिकृता स्वीकरणीयः । तथा च तत्र ज्ञानाश्रयताप्रकारकशाब्दबोधे तत्प्रकारकयोग्यताज्ञानहेतुताया: वऌप्तत्वादाश्रयता संसर्ग कशाब्दबोधे ताद्वशयोग्यता •
आश्रयतासम्बन्धेन ज्ञानादोति चैत्रो जानातीत्यादौ आश्रयत्वसंसर्गकज्ञान. विशिष्ट चैत्रमात्रविषयक योग्यताज्ञानस्य हेतुत्वं संसर्गतावादिमतेऽधिकं स्यादित्यर्थः । अधिकमिति ।
अथ आश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाऽभाववान् चैत्रस्सुन्दर इति विशिष्टवैशिष्ट्या वगाहिप्रत्यक्षत्वावच्छिन्नम्प्रति चैत्रो जानातीति शाब्दसामग्रथाः