________________
व्युत्पत्तिवादः
भिन्नविषयकप्रत्यक्षं
ज्ञानहेतुताकल्पनमधिकमेव मणिकृन्मते । न च दीधितिकृन्मते ताद्वशयोग्यताज्ञानहेतुत्वकल्पनलाघवेऽपि जानातीत्याद्यानुपूर्वीज्ञानघटितज्ञाघातुशक्तिज्ञानजन्यज्ञानोपस्थितिघटितशाब्द सामग्रया प्रति प्रतिबन्धकतायाम् आख्यातजन्याश्रयत्वोपस्थितेर्निवेशनस्याधिक्यागौरवमिति वाच्यम् ? भवन्मतेऽपि ज्ञानाश्रयत्वाभाववांश्चैत्रः सुन्दर इत्यादिविशिष्टवैशिष्टयावगाहिप्रत्यक्षे, जानाति चैत्र इत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुजन्यज्ञानोपस्थितिघटित सामग्रयाः प्रतिबन्धकताधिक्येन गौरवात् । मन्मते च ताद्वशसामप्रचा विरोधिज्ञानाश्रयत्वाभाव बत्तानिश्चयघटिततया तथाविघविशिष्टवैशिष्टय बोधसामग्रयास्ताद्वशशाब्द सामग्रया समं युगपदवस्थानासम्भवेन तादृशप्रतिबन्धकत्वकल्पनाविरहादित्यधिकं दर्शित दिशाबसेयम् ।
अथैवं रीत्या भूनले न घट इत्यादौ घटादिपदस्य घटप्रतियोगिका दौ तदुत्तरसुब्विभक्तेरेव वा प्रतियोगितायां लक्षणामभ्युपेत्य तत्र घटप्रतियोंगिकाभावो भूतलवृत्तिरित्याद्याकारक प्रतियोगिता प्रकार कशाब्दबोधोपगम समुचितः ।
१७०
एव
तथा सति तथाविधसमभिव्याहारज्ञानघटित सामग्रथा घटप्रतियोगिकत्वाभाववानभावः प्रमेय इत्यादिविशिष्ट वैशिष्ट यबोधं प्रति प्रतिबन्धकत्वाकल्पनेन लाघवाद इत्युक्त नियमे निपातातिरिक्तत्व विशेषण वैयर्थ्यमिति चेन्न ? भूतले न घट इत्यादौ घटाद्यभावे भूतलाद्यन्वितसप्तम्यर्थाधेयत्वस्येव तात्पर्यवशाद्धटादौ सप्तम्यन्तार्थभूतलादिवृत्तित्वाभावस्यान्वयबोधोऽध्यनुभवसिद्धः ।
प्रतिबन्धकत्वम् । संसर्गतामते तु तादृशशाब्दसामग्रथा आश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाऽभाववान् चैत्र इति बाधनिश्वयाभावघटिताया न प्रतिबन्धकत्वकल्पनमिति न गौरवमित्याशयेनाह अधिकमिति ।
अयमाशयः, निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाऽभाववदाभयत्ववान् चैत्र इति प्रत्यक्ष प्रति चैत्रो जानातीति शाब्दसामप्रथाः प्रतिबन्धकत्वमाश्रयत्वस्य संसर्गतावादिनामधिकमिति पूर्वोक्तरीतिर्योजनीये हेति ।
अथैवं रोत्येति -- प्रतिबन्धकत्वाऽकल्पनलाघवमूलकेनेति ।
तथा सतोति पूर्वोक्तप्रत्यक्षसामग्रया भूतले न घट इति वाक्यज्ञानघटितशाब्दसामग्रयाश्चैककालावच्छेदेनावस्थानाऽसम्भवादित्यभिप्रायः ।
उक्त नियम इति निपातातिरिक्तप्रातिपदिकार्थयोः क्रिया निपातातिरिक्तप्रातिपदिकार्थयोश्च भेदेन साक्षादन्वयाऽभावनियमः ।