________________
शास्त्रार्थकलोपस्कृता
अन्यथा ताद्वशवाक्य जन्यस्याप्रामाण्यज्ञानानास्कन्दितबोधस्य भूतले घट इत्यादिबाक्यजन्यघटादिविशेष्यकभूतलाद्याधेयत्वप्रकारकबोधविरोधितायाः सर्वानुभवसिद्धाया अनुपपत्तः।
नबपदं विना यत्र धर्मिणि यस्य विशेषणतया भानं याशसभि. व्याहाराद् भवति तादृशसमभिव्याहारस्थले नसत्त्वे तत्र धर्मिणि तदभावः प्रतीयते इत्यनुभवापलापप्रसङ्गाच्च । एवं च नअर्थाभावेऽनुयोगितया घटाद्य. न्वयबोधोपपत्तये निपातातिरिक्तत्वविशेषणमावश्यकम् । __ एवं न पचति चैत्रः, चैत्रस्य न धनमित्यादौ पाककृतिचैत्रकृस्वत्वा. द्यभावस्य नर्थस्य चैत्रधनादावन्वयबोधोपपत्तये घटी न पट इत्यादौ नबर्थघटादिभेदस्यान्वयबोधोपपत्तये च तदावश्यकम् । न चोक्तस्थ. लेषु नमोऽभाववल्लाक्षणिकतयाऽभाववता सममनुयोगिनो भेदान्वयबोध एव तत्रोपेयते इति वाच्यम् ? तथा सति सर्वत्राभाववत एव नज. र्थतया मुख्यार्थपरनञो दुर्लभत्वापत्तेः । अभावस्य भेदान्वयवोधोपगमेपि कार्यकारणभावकल्पनाधिक्यविरहेणाभाववति लक्षणानौचि. त्यात् । अन्यथेति--पूर्वोक्तवाक्याद् भूतलवृत्तित्वाऽभाववान् घट इति बोधानुपगमे ।
ननु हृदो वह्निमानितिज्ञानत्वावच्छिन्नम्प्रति असमानप्रकारकाणामपि हृदाऽवृत्तिवह्निः वहिव्यापकाऽभाक्वान् हृदः हृदनिष्ठाऽभावप्रतियोगी वह्निरित्वेवंविधानान्निश्चयानाम्प्रतिबन्धकत्वमिव घटाऽभावो भूतलवृत्तिरिति पूर्वोक्तवाक्याजायमानस्य निश्चयस्या. पि प्रतिबन्धकत्वसम्भवाद् भूतलवृत्तित्वाऽभाववान् घट इतिबोधाऽनभ्युपगभेऽपि न दोषविरह इत्यत आह नबपदंबिनेति । __ अथ बातो जातिरिति शाब्दबोधो भ्रमात्मको निरूप्यनिरूपकभावापन्नविषयताशाली जातिनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्ववती जातिरित्येवंविधः, जाती जाति स्तीत्यादौ "नपदं विना यत्र धर्मिणीति" न्यायेन जातिनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वाऽभाव एव हि शान्दबोधस्स चाऽप्रसिद्ध प्रतियोगिकत्वेनाऽसम्भवः । अतश्च समवायसम्बन्धावच्छिन्नप्रतियोगिताकजात्यभावः, जातिनिरूपितस्वरू. पसम्बन्धावच्छिन्नबृत्तित्ववानित्येवंविधो बोधः। एवञ्च नायन्नियमस्सार्वत्रिक इत्यभिप्रायेणाह एवन्न पचतीति ।
प्रतियोग्यभावान्वया तुल्ययोगक्षेमौ भवत इति न्यायस्यार्थः । नञ्पदंविना यादृशसमभिव्याहारात् ( भूतले घट इति समभिव्याहारात् ) यत्र धर्मिणि (घटे) यस्य (भूतलवृत्तित्वस्य ) विशेषणतया भानम्भवति, तादृशसमभिव्याहारस्थले नसत्वे भूतले न घट इत्यत्र तत्र धर्मिणि (घटे) तदभावो (भूतल वृत्तित्वाभावः) प्रतीयत इति सदुदाहरणम् ।