________________
व्युत्पत्तिवादः अभाववतोऽभेदान्वयबोधोपगमे भूतले घट इत्यादिवाक्यजन्यबोधे भूतले न घट इत्यादिवानयजन्यबोधस्याविरोधितापत्तश्च, लाघवात् स्वरूपसम्बन्धेन ग्राह्याभावनिश्चयस्यैव विशिष्ट बुद्धिविरोधित्वान्नत्वभेदसंसर्गकग्राह्याभावाश्रयप्रकारकनिश्चयस्येति ।
नोलो घट इत्यादौ विशेषणविभक्त रभेदार्थकत्वमतेऽपि यद्यप्युक्तरोत्या लाघवं संभवति ।।
तथापि तत्रापि न नो विद्वष इति दिक । प्रत्ययाश्च विभक्तिकृतद्धिअविरोधितापत्तेश्चेति । __ तद्धर्मिकतत्प्रकारकबुद्धौ तद्धर्मिकतदभावप्रकारकनिश्चयस्यैव विरोधित्वन्न तु तद. भाववत्प्रकारकनिश्चयस्येति । तथा च भूतले न घट इति वाक्यजन्यबोधस्य भूतलवृत्तिस्वाऽभाववत्प्रकारकत्वे भूतले घट इति वाक्यजन्यभूतलवृत्तित्ववान्घट इति शाब्दबोधम्प्रति तस्य प्रतिबन्धकस्वाऽनुपपत्तेरिति तत्त्वम् । वस्तुतस्तु
नैषः ग्रन्थो युक्तः तादात्म्यसम्बन्धेनाऽभाववता घटादौ प्रकारत्वे स्वरूपसम्बन्धेन अमावस्याऽपि घटादौ धर्मिपारतन्येण प्रतीतेः। एतेनैव प्रकारेणेदं रजतमित्याकारकशाब्दबोधे रजतत्वपदार्थस्याऽपि धर्मिपारतन्न्येण प्रकारत्वन्न्यायकौस्तुभोक्तं सङ्गच्छते ।
किश्च स्वरूपसम्बन्धेनाऽभावस्याप्रकारत्वे पर्वतो वह्नयभाववानिति शाब्दबोधकाले वह्निमान् पर्वत इति बोधो नेष्टस्स च स्यादेव, वह्नभाववत्प्रकारकनिश्चयस्य शुद्धवहिप्रकारकशानाऽप्रतिबन्धकत्वात् । धमिपारतन्त्र्येण स्वरूपसम्बन्धेनाऽभावस्याऽपि प्रकार त्वे तु अभेदेन वह्नयभाववतः प्रकारत्वे स्वरूपसम्बन्धेन वहयभावस्याऽपि प्रकारत्वेन प्रतिवध्यप्रतिबन्धकभावसङ्गतेः।
नोलो घट इति--अत्र कृष्णम्भटः, यथा राजस्वत्वाऽभाववान्पुरुषस्सुन्दर इति प्रत्यक्षम्प्रति षष्ठी स्वत्वार्थिकेति नव्यमते राशः पुरुष इति सामग्रयाःप्रतिबन्धकत्वन्न कल्प्यते राजस्वत्वाऽभाववान्पुरुष इति विशेष्यतावच्छेदकप्रकारकनिश्चयः (निर्णयः) प्रत्यक्षे कारणं स एव निर्णयश्शाब्दबोधे बाधस्तादृशमाधाऽभावशाब्दबोधे कारणन्तथाच बाधतदभावयोर्युगपदवस्थानाऽसम्भवात् सामग्रथोमेलनन्न सम्भवतीति न शाब्दसामग्री प्रत्यक्ष प्रतिबन्धिका । एवन्नीलाऽभेदाऽभाववान् घटः प्रमेय इति प्रत्यक्षेऽपि नोलाऽमेदाऽभाववान्घट इति विशेष्यतावच्छेदकप्रकारकनिर्णयःकारणम्, स एव च नीलो घट इति वाक्यजन्ये नीलाऽभेदवान् घट इति शाब्दबोधे बाधस्तस्य बाधस्याऽ. भावश्शाब्दबोधे कारणमिति प्रत्यक्षशाब्दसामग्रयोधितदभावघटितयोर्योगपद्याऽसम्भवात् न शाब्दसामग्री प्रत्यक्षे प्रतिबन्धिकेत्युक्तरीत्यर्थः । . तथा च नीलो घट इत्यत्रापि विशेषणविभक्तिभेदबोधकतया षष्ठीविभक्तिवत्सार्थिकेति । इष्टापत्त्या समाधने तथापि तत्रापि न नो विद्वेष इति । प्रतिबध्यम