________________
शास्त्रार्थंकलोपस्कृतः तादिभेदन नानाविधाः । विभक्तिश्च सुप्तिकभेदेन द्विविधा। सुबित्रभक्तयः प्रथमाद्वितीयादयः सप्त, तत्र प्रथमार्थः प्रकृत्यर्थे विशेषणविधयान्वयिनी संख्यैव । अत एव यत्र विशेष्यवाचकसमान विभक्तिकपदं निपातपदं वा नास्ति तत्र प्रथमान्तार्थस्य विशेष्यभासकसामप्रयभावादसौ मुख्यविशेष्यता यैव भासते। तिबन्धकलाघवसत्वे नः अभेदसंसर्गतावादिनामस्माकं युक्तिबलाद्वस्तुसिद्धौ न विद्वेष इति तत्त्वम् । अत्र नस्सम्मतिनास्तीति स्पष्ट मनुक्त्वा न नो विद्वेष इति वदतां संसर्गतावादिनां मीमांसकखण्डदेवादिजगदीशतर्कालङ्कारन्यायकौस्तुभकारादीनामयमभिप्रायोऽस्ति । सर्वत्र पदार्थव्यवस्था लाघवानुरोधेन प्रतीत्यनुरोधेन च भवति । प्र. तीतिश्च प्रायेण नीलो घट इत्यादौ अभेदसंसर्गिकैव, तामेव प्रतीतिमार्थिका गृह्णन्ति । तथा च प्रकारतावादो हेय पवेत्यर्थः ।
किश्च प्रकारतावादे विभक्त्यर्थकल्पना पूर्वोक्तरीत्या नवविधबाधापत्तिश्च । तस्मात्संसर्गतापक्ष एव साधीयानिति महतां विमर्शः। प्रत्ययाश्च विभक्तिकृत्तद्धितादिभेदेनेति ! __ अत्रादिपदेन शपश्यनादिविकरणानामपि ग्रहणम् । संख्यैवेत्युक्त्या लिङ्गपरिमाणयोः प्रथमार्थत्वनिरासः । ब्राह्मणवति गृहे अत्र ब्राह्मणी नास्तीति प्रतीतेः । "प्रातिदिकार्थ" सूत्रे परिमाणपदेन गुरुत्वं परिमितिश्चेत्यर्थद्वयं गृह्यते । द्रोणो व्रीहिरित्यत्र गुरुत्वम्, तत्र प्रकृत्यर्थद्रोणपदार्थस्याऽभेदेन गुरुत्वेऽन्वयो गुरुत्वस्य च समवायेन बीहावन्वयः, द्रोणाऽभिन्नगुरुत्ववान् ब्रीहिरितिशाब्दबोधः । परिमितिश्च वितस्तिश्शंख इत्यत्राऽस्ति द्वादशाङ्गुलपरिमाणवाचिप्रथमाविभक्तेः परिमाणमर्थः, वितस्तिप्रकृत्यर्थस्याऽभेदेन तत्रान्वयः, परिमाणस्य च समवायेन शड्खेऽन्वयः, वितस्त्यभिन्नपरिमा. णवान् शंख इति बोधः । अत्र किञ्चित् __क्रियामुख्यविशेष्यकशाब्दबोधे पाचको न पचतीत्यादी दोषः १ पाकस्य पाचकक.
तं त्वनियमात् । प्रतियोगितासम्बन्धेन नञर्थेऽन्वयेऽपि पाचकस्य अनुयोगितासम्बन्धन तिर्थकत्तुश्च पाचकान्यकत्त को विद्यमानपाक इत्यन्वयबोधाऽसम्भवात् । प्रथमान्तार्थमुख्यविशेष्यत्वस्वीकारे वर्तमानकालिकपाकानुकूलकृत्यभाववान् पाचक इत्यन्वयबोधो निश्शङ्क एव ।
शशी दिवसधूसरो विगतयौवना कामिनी, सरो विगतवारिनं मुखमनक्षरं स्वाकृतेः। प्रभुड़नपरायणस्सततदुर्गतस्सजनो, नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥
किश्व