________________
१७४
व्युत्पत्तिवादः संख्यावाचकानां च एकवचनद्विवचनबहुवचनानामेकत्वत्वद्वित्वस्वबहुत्वावच्छिन्नेषु शक्तिः । शक्तता च सुत्वऔत्वजसत्वादिना न तु स्वादितिबादिसाधारणैकवचनत्वादिना । एकवचनत्वादेर्दुर्वचत्वात् । न चैकत्वादिवाचकत्वं तत् ? वाचकतायाः शक्ततावच्छेदकत्वे आत्मा. श्रयात् ।
इत्यादिषु क्रियापदाऽभावास्क्रियामुख्यविशेष्यकबोधः कथम् ? तथा च सति सम्भवे प्रथमान्तार्थमुख्यविशेष्यकोऽपि बोधोऽत एव "प्रयाति पुरुषस्तस्य पादयोरभिवादय" इत्यादौ "प्रथमान्तार्थः प्राधान्यान्मृश्यते तदा" इत्यादौ प्रथमान्तार्थप्राधान्यात्तच्छन्देन परामर्शः। वस्तुतस्तु __ "दाणश्च सा चेचतुर्थ्यर्थे" इतिस्त्रे तच्छन्देनाऽप्रधानतृतीयापरामर्शात्सर्वनाम्नामुत्सर्गतो बुद्धिस्थमात्रपरामर्शकत्वन्न तु प्रधानाऽप्रधाननियमः । न च प्रथमार्थमुख्यवि. शेष्यकबोधाऽभ्युपगमे भावप्रधानमाख्यातमितिवचनविरोधस्तत्र भावपदेन क्रियाया एव ग्रहणम् इति वाच्यम् ? तत्र भावशब्देन भावनाया ग्रहणाद् आख्यतार्थकालसंख्याकृतिषु भावनात्मिकायाःकृतेरेव प्राधान्यमित्यभिप्रायात् । अत एव भावनासा. मान्यशन्ये सुप्तपुरुषे नायम्पचतीति प्रयोगानुपपत्त्या भावशब्दस्य भावनार्थकत्वमङ्गीकृत्य भावनामुख्यविशेष्यकबोधो मीमांसकाऽभिमतोऽयुक्ततर एव ।।
किञ्च "सत्त्वप्रधानानि नामानी"ति स्मृतौ सत्त्वशब्देन लिङ्गसंख्याधन्वययोग्य एवार्थः। एवञ्च शाब्दिकमीमांसकमतेनैतस्याः प्रामाण्यमुपपद्यते, नैयायिकमते तूभयोस्स्मृत्योः प्रामाण्यमिति । विशेषशास्त्रार्थप्रकारस्त्वस्मस्कृतकौमुदीकल्पलतिकायामवलोक्य इत्यलम् । एकत्वत्वेत्यादि।
अत्र एकत्वत्वद्वित्वत्वादिजातिरेव शक्यतावच्छेदिका । नीलो घट इत्यादौ गुणवाचकनीलपदोत्तरसुपोऽपेक्षाबुद्धिविशेष्यत्वे लक्षणेति क्षतिविरहः । वस्तुतस्तु ___ एकत्वत्वम् द्वित्वस्वम् अखण्डोपाधिरेव अपेक्षाबुद्ध्यनुपस्थितावपि संख्याप्रतीतेरनुभवसिद्धत्वात् । अस्मिन् मतेऽखण्डोपाधिरूपमेकत्वत्वादिकं शक्यतावच्छेदकम्बोध्यम् । अखण्डोपाधित्वञ्च स्वरूपसम्बन्धावच्छिन्नवृत्तित्वे सति समवायभिन्नत्वे सति भावत्वम् । शक्तता च सुत्वऔत्वेत्ति-आदेशानाममादीनामनन्तत्वेनादेशिनस्सुत्वादेरेव शक्ततावच्छेदकत्वम् । एकत्ववाचकत्वञ्च ईश्वरेच्छीयैकत्वविषयकबोधजनकत्वप्रकारतानिरूपितविशेष्यत्वम् । एकवचनत्वस्य शक्ततावच्छेदकत्वेत्वात्माश्रयस्स्यादिति तत्त्वम् ।