________________
शास्त्रार्थकलोपस्कृतः
१७५ बोधकतारूपत्वे शक्तिभ्रमेण द्विवचनादीनामपि एकत्वबोधकतया अतिप्रसक्तत्वात् । न चैकवचनत्वादिकं जातिविशेषः ? सुपत्वादिना सांकर्यात । न च शक्तिसंबन्धेन एकवचनादिपदवत्वं तत् ।। तादृशज्ञानदशायां च सुरवादिना शक्तिभ्रमादेव शाब्दबोधः । एकवचनादिशब्दस्य पदद्वयात्मकतया तादृशसमुदायशक्तेरेवाप्रसिद्धिरिति त नाशङ्कनीयम । एकं वक्तोत्यादिव्युत्पत्त्या एकवचनादिशब्दस्य स्वादिबोधकत्वे एकादिशब्देऽपि तादृशव्यवहारापत्तेः । एकवचनादिशब्दस्य स्वादौ रूढिस्वीकारस्यावश्यकत्वादिति बाच्यम् ? ग्रन्थकारीयसंकेतेनैवोपपत्तौ एकवचनादिपदे शक्तेरप्रामाणिकत्वात् । तान्येकवचनद्विवचनेत्यादिपाणिनिसूत्रस्य तदीयसंकेतग्रहपरतयाप्युपपत्तेः । न हि यू च्याख्यौ नदीत्यनुशासनात् व्याख्येदूदन्तादिशब्दे नद्यादिपदस्य शक्तिः सिद्धयति । किन्तु तदोयसंकेत एव ।
बधकतारपत्व इति-वाचकताया इति शेषः । बोधकत्वञ्च बोधजनकत्वम् , तत्र शक्तिप्रवेशाऽभावान्नात्माश्रय इति फलितम् ।
सुप्त्वादिनेति । साङ्कर्यश्च परस्परात्यन्ताऽभावसमानाधिकरणबे सति एकाधिकरणवृत्तित्वम् इति । परन्तु परस्परत्वस्यानुगतस्य दुर्वचनत्वेन जातिविशिष्टत्वमेव साङ्काय॑म् । वैशिष्ट्यञ्च स्वसामानाधिकरण्यस्वाऽभावसामानाधिकरण्यस्वसमानाधिकर. णात्यन्ताऽभावप्रतियोगित्वमिति त्रितयसम्बन्धेन । जलगतद्वित्वनिरूपितसाङ्कर्याम्पृथिवीत्वे पतेदिति वस्तुविशिष्टत्वं विहाय जातिविशिष्टत्वमिति ।। ___ स्वसामानाधिकरण्यञ्च समवायसम्बन्धावच्छिन्नस्वनिष्ठनिरूपकतानिरूपिताधिकरणतावन्निरूपितसमवायस्वरूपातिरिक्तसम्बन्धानवच्छिन्नवृत्तित्त्वम् । जातिविशिष्टजातित्वावच्छेदेन स्वसमानाधिकरणाऽभावप्रतियोगित्वाऽभाव इति नियम एव प्रमाणम् । नियमे वैशिष्ट्यञ्च स्वसामानाधिकरण्य स्वाऽभावसामानाधिकरण्यमित्युभयसम्बन्धेन । संकीर्णस्य जातित्वस्वीकारे नियमभङ्ग इत्यलमप्रस्तुतप्रस्तावेन ।
वस्तुतस्तु प्रकृते सुनवस्य पाणिनीयसङ्केतसम्बन्धेन सुप्पदवत्त्वाद् न जातित्वम् । अत एवादिपदोपादानम् । तथा च अत्वेन मत्वेन साङ्कर्म्यम् ।
न चेति-वाच्यमिति परेणान्वयः । शक्तिसम्बन्धेनेति- स्वजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतासम्बन्धेनेत्याशयः । ___ तादृशाऽज्ञानदशायार्माित-घटादिशब्दे एकवचनपदवद् एकत्वे शक्तमित्या. दिज्ञानाऽभावेऽपि सुपदमेकत्वे शक्तमिति सुपदधर्मिकशक्तत्वावगाहिभ्रमादेव शाब्दबोध इति तत्त्वम् । अत एवेति-पाणिनिसङ्केतादेवेत्यर्थः ।