________________
व्युत्पत्तिवादः । अत एव नद्यादिसंज्ञा आधुनिकसंकेतशालिवास्पारिभाषिक्येव न त्वौपाधिको । अर्थवमपि पाणिनिसंकेतसम्बन्धेन ताशपद्वत्त्वमेव एकस्वादिशक्ततावच्छेदकमस्त्विति चेन्न ? ताशसंकेतस्य केन रूपेण सम्ब न्धता ? संकेतत्वेनेति चेत्तर्हि कस्यचित्पुंस एकवचनपदात् सुभोजसादिर्बोद्धव्य इत्याकारकसंकेतस्यापि संभवादतिप्रसक्तिर्दुरिव ।
पाणिनिसंकेतत्वेन तथेति चेन्नई व्याकरणप्रणेतुः पुरुषान्तरस्यापि तादृशसंकेतस्थ संभवात् । तदोयसंकेतसम्बन्धेन तत्पदवत्त्वस्य विस्थादिपदात् सुऔजसादिर्बोद्धव्य इत्याकारकपुरुषसंकेतसम्बन्धेन सिस्थादिपंदवत्त्वस्य वा बिनिगमनाविरहेण शक्ततावच्छेदकताप्रसङ्गः। तथा चागत्या आनुपूर्वी विशेष एव शक्ततावच्छेदक इति ।
यत्तु संख्यापि प्रकृतेरर्थः । एकवचनादिकं च एकत्वाद्यर्थे तात्पर्यग्राहकमेव । न चैबमेकप्रकृत्युपस्थाप्ययोरर्थयोः परस्परमन्वये भाकांक्षाविरहाद् घटादावेकत्वाद्यन्वयानुपपत्तिः। अन्यथा हर्यादिपदादुपस्थितयोरश्वसूर्ययोराचाराधेयभावेनान्वयापत्तिः ।
घटादिपदस्य एकत्वादिविशिष्टस्य घटादौ च न शक्तिसंभवः, घटरूपं पश्येत्यादौ संख्यानवच्छिन्नघटादेरेवान्वयबोधादिति वाच्यम् ? आकांक्षावैचित्र्यादेकप्रकृत्युपस्थाप्ययोरपि घटेकत्वयोः परस्परमन्वयसंभवात् । अत एष खण्डशक्त्यैवकाराद्युपस्थाप्ययोरन्ययोगव्यवच्छेहाद्योः परस्परमन्वयबोधः।
नत्वोपाधिकोति।
ननु औपाधिको संज्ञा केति प्रश्नः १ अनुगतोपाध्यवच्छिन्नसङ्कतवती संज्ञा औपाधिकी संज्ञा । यथा दूत इति मित्रगृहवार्ताहारकत्वाद्यनुगतोपाधिपुरस्सरदूतप्रवृत्तिः । अत एव शब्दशक्तिप्रकाशिकायामुक्तम् ।
यद्वाधुनिकसङ्कतशालित्वात् पारिभाषिकम् ।
जात्या नैमित्तिक शक्तमौपाधिकमुपाधिना ।। इति । सङ्केतत्वेनेति-पाणिनीयत्वाऽविशेषितसंकेतत्वेनेत्यर्थः। तत्पदवत्वस्येतिएकवचनपदवत्वस्येत्यर्थः । स्वौजसादिति-आदिपदस्य प्रत्येकान्वयः । एकप्रकृत्युपस्थाप्ययोरिति-एकप्रत्ययजन्ययोःकालकृत्योः परस्परमन्वयबोधानुरोधेन प्रकत्युपस्थाप्ययोरिति । आकांक्षाविरहादिति-समभिव्याहाररूपाकांक्षा तु घटपदसुपदयोर्न सम्भवति १ ययोरर्थयोरन्वयबोधस्तत्तबोधकपदयोरेव समभिन्याहारस्याऽकांक्षात्वादिति तत्त्वम् ।
अन्वयसम्भवादिति- एफत्वे घटे च खण्डश्यक्तिरेवेति ।