________________
शाखाथकलोपस्कृतः न चैवं कर्मवादिकमपि प्रकृत्यर्थ एवास्तु, किं तत्र द्वितीयादिश. स्त्येति वाच्यम् ? नामार्थधात्वर्थयोः साक्षाढ़ेदान्वयबोधस्याफ्युत्पन्नतया कर्मत्वादेन मार्थत्वे तेन समं धात्वर्थान्वयासंभवात् ।। ___ न च संख्यायाः प्रातिपदिकार्थत्वे सति तात्पर्यशाने विनैव शक्तिभ्रमं लक्षणाग्रह वा द्विवचनाद्यन्तपदादेकत्वादिबोधसंभवात् । एकत्वादितात्पर्येण एकवचनान्तस्येव द्विवचनान्तस्यापि पदस्य स्वारसिकप्रयोगापत्तिरिति वाच्यम ?
अनादितात्पर्यस्यैव स्वासिनप्रयोगमूलत्वादेकवचनाद्यन्तपदस्यैव एकत्वादावनादितात्पर्योपगमेनातिप्रसङ्गविरहात् । द्वयेकयोर्द्विवचनैकवचने इत्याद्यनुशासनं च तादृशतात्पर्यग्राहकमेवेति वैयाकरणमतम् । तदसत् । अनन्तानां प्रकृत्यानुपूर्वीणां शक्ततावच्छेदकत्वापेक्षया अल्पतरविभक्त्याद्यानुपूर्वीणामेकत्वादिशकतावच्छेदकत्वस्यैवोचितत्वात् ।
न च प्रातिपदिकत्वमेव शक्ततावच्छेदकं न तु घटपदत्वादिकमिति न शक्त्यानन्त्यमिति वाच्यम् ? प्रातिपदिकत्वस्य दुर्निबंचत्वात् । तद. ज्ञानेऽपि एकत्वादिज्ञानस्यानुभविकत्वात् ।
पदत्वे वर्णत्वेन वा शक्तत्वे विभक्तरपि तद्वाचकतासिद्धेः । एकत्वादि. शाब्दबोधात्पूर्व वर्णत्वायुपस्थितेरप्यनावश्यकत्वाच । फलानुरोधेन तत्कल्पने च कल्पनागौरवात्। एवमानुपूर्वीभिन्नधर्मस्य वाच. धात्वर्थान्वयाऽसम्भवादिति ।
नच संख्यायाः प्रकृत्यर्थत्वे संख्याप्रकृत्यर्थयोरपि भेदसम्बन्धेनान्वयो न स्यात्पूर्वोक्तव्युत्पत्तिबलादिति वाच्यम् ? नामार्थयोरितिपदस्थाने नामद्वयार्थयोरिति व्युत्पत्ती निवेशेनाक्षतेः। _स्वारसिकप्रयोगाऽपत्तिरिति-स्वारसिकत्वञ्च शक्तिभ्रमाऽनधीनत्वे सति प्रयोजनप्रतिसन्धानाऽजन्यत्वम् । अतिप्रसङ्गविरहादिति-पूर्वोक्तस्वारसिकप्रयोगविरहादित्याशयः । तदज्ञानेऽपीति-प्रातिपदिकत्वाऽशानेऽपीत्यर्थः । ननु वर्णत्वञ्च प्रत्येकवर्णे पर्याप्तम् शक्तता च न प्रत्येकवर्णपर्याप्ताऽन्यथा प्रत्येकवर्णशानादपि शाब्द
बोधापत्तेः।
__ एवञ्च वर्णत्वस्यातिप्रसक्तत्वेन कथं शक्ततावच्छेदकत्वमिति चेन्न ? अतिप्रसक्तोऽ. ऽपि धर्मो विषयतावच्छेदको भवति, शक्तता च ईश्वरेच्छीयतत्तदर्थविषयकबोधजनकत्वप्रकारतानिरूपितविशेष्यतारूपेतिव्याख्यानात् । नच प्रत्येकवर्णशानाच्छाब्दबोधापत्तिरिति वाच्यम् १ वर्णान्तरज्ञानस्य सहकारित्वोपगमेन प्रत्येकवर्णच्छाम्दबोधानमकाशात् ।
वर्णत्वेन रूपेण संख्यावाचकत्वन सम्भवतीत्याशयेनाह-एकत्वादीति। . . १२ व्यु०