Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 190
________________ १८२ व्युत्पत्तिवादः तज्जन्यविशिष्टविषयकोपस्थित्या विशिष्टविषयकशाब्दधोजननात्तथाविधोपस्थितिहेतुतायाः सर्वानुमतत्वात् । पदान्सरासमभिव्याहताद्धट इत्यादिपदा. देकत्वादिविशिष्टघटादिशाब्दबोधस्त्वलीक एव । तद्विषयकस्मरणस्य तत्रो. पगमात् । तथा चोक्त सर्वे हि वाक्यं क्रियाय परिसमाप्यते इत्यपि निरस्तम । याशपदानां लक्षणया एकत्वादिविशिष्टस्वार्थबोधहेतुत्वं नोभयवादिसिद्धं तादृशानन्तपदजन्यविशिष्टोपस्थितीनां शाब्दधीहेतुताकल्पनमपेक्ष्य विभक्तिजन्यसंख्योपस्थितीनामल्पानां तत्कल्पने लाघवात् । इदं पुनरिहावधेयम । विभक्तेः संख्याबोधकत्वे समानविषयकानुमित्यादिकं प्रति शाब्दसामग्रीप्रतिबन्धकतायां या प्रातिपदिकजन्या घटाद्यपस्थितिर्या च विभक्ति जन्या संख्योपस्थितिः प्रवेश्या तयोश्च मिथो विशेष्यविशेषणभावे विनिगमनावि. रहात्प्रतिबन्धकताबाहुल्यम् । प्रकृतेर्विशिष्टलाक्षणिकत्वे तु तदुभयस्थलीयविशिष्टविषयकोपस्थितिरेकैव सामग्रथामन्तभवति इति लाघवम् । न च विशिष्टविषयकोपस्थितेपि एकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिविषयताशालित्वेन वा प्रवेश इति विनिगमनाविरहात्साम्यमिति वाच्यम् ? स्वादिविभक्तीनामेव संख्यायां शक्तिरित्याकूतम् । . विभक्तस्संख्याबोधकत्वमते गौरवम्प्रकाशयति इदम्पुनरिहेनि । विभिन्न विषयकप्रत्यक्षस्वावच्छिन्नम्प्रति शाब्दसामग्रथाः प्रतिबन्धकत्वं समानविषयकानुमितित्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वम् इति नियमद्वयम् । एवञ्च घटादिपदनिष्ठस्वादिपदनिष्ठोपस्थितेश्च प्रतिबन्धकत्वमापद्यत । किञ्च तयोरुपस्थित्योः परस्परं वि... शेष्यविशेषणभावे विनिगमनावैकल्येन घटपदजन्यघटोपस्थितिविशिष्टविभक्तिजन्यसं. ख्योपस्थितेः प्रतिबन्धकत्वम् । एवं विभक्तिजन्यसंख्योपस्थितिविशिष्टघटपदजन्यघटोपस्थितेरपि प्रतिबन्धकत्वमेवं सर्वत्र बहुविधोपस्थितिप्रतिबन्धकत्वकल्पने गौरवम् । प्रकृ तेरेव संख्याविशिष्टप्रकृत्यर्थघटादौ लक्षणाग्रहणे तु संख्या विशिष्टप्रकृत्यर्थविषयकोपस्थितिरेकैवास्तीति समानविषयकानुमितीतिनियमानुसारेण एकस्या एव प्रतिबन्धकत्वकल्पनाल्लाधवमिति तात्पर्येणाह प्रकृतेरिति । नच संख्याविशिष्टघटविषयकोपस्थितिस्वीकारेऽपि विनिगमनाविरहेण संख्याप्रकार. कघटविशेष्यकत्वेन घटादिविशेष्यकसंख्याप्रकारकत्वेन द्वैविध्यात् साम्यमित्याह नचेति । ___ भवन्मते संख्याया विभक्त्यर्थत्वमते शाब्दबोधसामग्रयां योग्यताज्ञानस्य घटपदजन्यघटोपस्थितेर्विभक्तिजन्यैकत्वादिसंख्योपस्थितेश्च प्रवेश इति त्रयाणां विशेष्य

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296