Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 171
________________ शास्त्रार्थकलो पस्कृतः यत्तु राज्ञः पुरुष इत्यादौ राजस्वत्ववान पुरुष इत्याद्यन्वयबोधोपगमे राजकीयं स्वत्वं राजस्वत्वत्रान् पुरुष इत्याकारऋद्विविधानुमितेरेव । १६३ बाद एव गौरवम् । कारणसामग्रीत्वञ्च कारणकूटत्वम् । कूटत्वञ्च एकविशिष्टाऽपरत्वरूपम् । किन्तु संसर्गतावादे राज्ञः पुरुष इत्यत्र शेषत्वाऽभावेन षष्ठीविभक्तिरेव न सिद्धयेत् । यद्यपि कृष्णम्भट्टयां षष्ठ्या द्योतकत्वनिरर्थकत्वं वेति प्रतिपादितमस्ति तथापि “षष्ठी शेष" इति सूत्रप्रवृत्त्यभावेनाभीष्टश्शाब्दबोध एव न स्यात् । तथाचोपस्थित्यादिगौरवेऽपि प्रकारतावादपक्ष एव योग्य इति षष्ठीविधानसिद्धिरिति सरयूपारीणशुक्लाः । राज्ञः पुरुष इति । अत्र कुशाग्रबुद्धयः संसर्गतावादिनिकाये स्वत्वसम्बन्धेन राजविशिष्टः पुरुष इत्याकारकशान्दबुद्धिस्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाऽभावव्याप्यस्वत्व सामा स्वावच्छिन्नम्प्रति न्याऽभाववान् पुरुष इति निश्वयस्य तदभावव्याप्यवत्तानिश्चयरीत्या प्रतिबन्धकत्वापप्तिः । किञ्च स्वत्वमम्बन्धेन राजविशिष्टः पुरुषः इति शाब्दबुद्धित्वावच्छिन्नम्प्रति स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाऽभावव्याप्यराजस्वत्वाभाववान् पुरुष इति निश्चयस्य प्रतिबन्धकत्वन्दुर्वारम् । किञ्च स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाऽभावव्याप्यं यत् निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाऽभाववत्स्वत्वं तद्विशिष्टः पुरुष इति निश्चयस्यापि तदभावव्याप्यवत्तारीत्या प्रतिबन्धकानन्त्यमापद्येत । तत्तत्प्रतिबन्धकाऽभावमात्रस्य शाब्दसामग्रीघटकत्वेन विभिन्नविषयकप्रत्त्यक्ष सहस्रत्वावच्छिन्नप्रति प्रतिबन्धकत्वेऽनन्तानन्तगौरवम् । स्वत्वं षष्ठयर्थ इति प्रकारतावादिनिकाये तु राजस्वत्वाऽभावव्याप्यराजाऽभाववान्पुरुष इत्येकविधनिश्चयस्यैव प्रतिबन्धकत्वन्तत्प्रतिबन्धकाऽभावरीत्या तत्तदभावस्यैव कारणत्वमिति नियमः । विभिन्नविषयकप्रत्यचसामा प्रवेशोऽपि गौरवमिति महल्लाघवम् । किञ्च प्रकारतावादेऽवच्छेदकताधिक्यगौरवश्च । तथा हि स्वाऽभावाधिकरणनिरूपितवृत्तित्वाऽभावस्यैव व्याप्यत्वेन तद्वत्तानिश्चयस्य राजत्वनिष्ठाऽवच्छेदकतानिरूपितनिरूपितत्त्वसम्बन्धावच्छिन्नराजनिष्ठाऽवच्छेदकता निरूपित स्वत्वत्वनिष्ठाऽवच्छेदकतानिरूपितस्वत्वनिष्ठप्रतियोगिताकाऽभावो नास्तीति सार्वजनीनव्यवहारसिद्धतालद्वयावली - ढावच्छेदकतासाध्याभावाधिकरणनिरूपितवृत्तित्वन्नास्तीति प्रतीतिसिद्धाऽभावावगाहि निश्चयस्य कतिपयांशे तालत्रयावलीढावच्छेदकताघटितप्रतियोगिताकाऽभावविषयकतया तन्निश्चयनिष्ठप्रतिबन्धकतायाः तादृशनिश्चयाऽभावनिष्ठसामग्रीविधया कारणत्वेऽधिकाबच्छेदकत्वम् । तत्तद्विषयानुरोधेन प्रतिबन्धकत्वकारणत्वयोश्च कल्पनेन महागौरवप्रयास इत्याहुः । पुनरपि वक्ष्यमाणप्रकारेण संसर्गतामतं खण्डयितुम्प्रयतते यत्विति । यथा

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296