Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 152
________________ १४४ व्युत्पत्तिवादः न च तादृशाकाङ्कायास्तत्र सत्वेऽपि राजादिपदार्थप्रकारकभेदान्वयवोधे राजादिपदार्थप्रकारकराजादिपदाव्यवहितोत्तरकसपदस्वादिरूपानुपूर्वीविशेषरूपाया आकाङ्काया अपि प्रयोजकत्वात् तदभावादेव न तत्र शाब्दसामग्रोति वाच्यम् ? सम्बन्धादिविशेष्यकराजादिप्रकारका. न्वयबोध एव ताशाकाङ्काज्ञानस्य हेतुतया पुरुषादी राजादिपदार्थप्रकारकान्वयबोधोत्पत्तौ तादृशाकाङ्क्षाज्ञानरूपकारणविरहस्याकिंचित्करत्वात् । । अत्र केचित् । नामार्थप्रकारकभेदान्वयबोधं प्रति समानविशेष्यताप्रत्यासत्या प्रत्ययजन्योपस्थितेहेतुत्वकल्पनात् नामार्थप्रकारकभेदान्वयबोधे विशेष्यतया प्रत्ययार्थस्यैव भानं न तु नामार्थान्तरस्य, तत्र विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरसवात् । येनाशङ्कते नचेति । ङसन्तराज्ञ इत्यानुपूर्व्या एव तादृशान्वयबोधम्प्रति मुख्यकारणत्वादिति हृदयम् । ननु राज्ञ इत्याकारकानुपूर्वीशानस्य राजप्रकारकभेदान्वयबुद्धौ कारणत्वस्वीकारे राजानौ राजानमित्यादौ भेदान्वयबुद्धरिष्टत्वेनानिष्टाऽपत्तेः । नच राजानमित्यानुपूर्वीज्ञानस्यापि पार्थक्येन कारणत्वस्वीकारान्न दोष इति वाच्यम् ? तादृशानुपूर्व्या अभावेऽपि राजा राज्ञीत्यादौ भेदान्वयस्येष्टत्वेनासिद्धिथापत्तेः। तथा च स्वत्त्वसम्बन्धेन राजप्रकारकपुरुषविशेष्यकशाब्दबोधम्प्रति राज्ञ इत्याकारकांनुपुर्वीज्ञानस्य कारणत्वम् । एवञ्च तादृशकारणत्वाऽभावात् तदसत्त्वमकिश्चित्करमिति तत्त्वम् । अयमाशयः, निरूपितत्वसम्बन्धावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपितस्वत्वत्वावच्छिन्नविशेष्यत्वाऽवच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबोध एव तादृशानुपूर्वीशानस्य कारणत्वाद्राना पुरुष इत्यादौ भेदान्वयबोधः कुतो नेति । नामाथेप्रकारकभेदान्वयबोधम्प्रति इति । निपातातिरिक्त विशेष्यकेत्याशयः, तेन घटो नास्तीत्यादौ विशेष्यतासम्बन्धेन घटप्रकारकबोधस्य नार्थाऽभावे प्रतीतावपि दोषाऽभाव इति । विशेष्यतासम्बन्ध एव कार्यतावच्छेदक इति बोधनार्थमाह समानेति । नतु नामार्थान्तरस्येति । अत्र नामार्थस्येत्येतावन्मात्रोक्तो नीलो घट इत्यादौ घटत्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताया भानाद्दोष इत्याशयेनाह नामार्थान्तरस्येति । अयमर्थः, पदार्थपदार्थतावच्छेदकयोरेकस्या एव शक्तर्विद्यमानत्वेन न नामार्थान्तरत्वमिति तात्पर्यात् अत्र के चिदिति ।। नामार्थप्रकारकभेदान्वयविषयकशाब्दबुद्धित्वावच्छिन्नम्प्रति समानविशेष्यताप्र

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296