________________
१४४
व्युत्पत्तिवादः न च तादृशाकाङ्कायास्तत्र सत्वेऽपि राजादिपदार्थप्रकारकभेदान्वयवोधे राजादिपदार्थप्रकारकराजादिपदाव्यवहितोत्तरकसपदस्वादिरूपानुपूर्वीविशेषरूपाया आकाङ्काया अपि प्रयोजकत्वात् तदभावादेव न तत्र शाब्दसामग्रोति वाच्यम् ? सम्बन्धादिविशेष्यकराजादिप्रकारका. न्वयबोध एव ताशाकाङ्काज्ञानस्य हेतुतया पुरुषादी राजादिपदार्थप्रकारकान्वयबोधोत्पत्तौ तादृशाकाङ्क्षाज्ञानरूपकारणविरहस्याकिंचित्करत्वात् । । अत्र केचित् । नामार्थप्रकारकभेदान्वयबोधं प्रति समानविशेष्यताप्रत्यासत्या प्रत्ययजन्योपस्थितेहेतुत्वकल्पनात् नामार्थप्रकारकभेदान्वयबोधे विशेष्यतया प्रत्ययार्थस्यैव भानं न तु नामार्थान्तरस्य, तत्र विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरसवात् ।
येनाशङ्कते नचेति । ङसन्तराज्ञ इत्यानुपूर्व्या एव तादृशान्वयबोधम्प्रति मुख्यकारणत्वादिति हृदयम् ।
ननु राज्ञ इत्याकारकानुपूर्वीशानस्य राजप्रकारकभेदान्वयबुद्धौ कारणत्वस्वीकारे राजानौ राजानमित्यादौ भेदान्वयबुद्धरिष्टत्वेनानिष्टाऽपत्तेः । नच राजानमित्यानुपूर्वीज्ञानस्यापि पार्थक्येन कारणत्वस्वीकारान्न दोष इति वाच्यम् ? तादृशानुपूर्व्या अभावेऽपि राजा राज्ञीत्यादौ भेदान्वयस्येष्टत्वेनासिद्धिथापत्तेः। तथा च स्वत्त्वसम्बन्धेन राजप्रकारकपुरुषविशेष्यकशाब्दबोधम्प्रति राज्ञ इत्याकारकांनुपुर्वीज्ञानस्य कारणत्वम् । एवञ्च तादृशकारणत्वाऽभावात् तदसत्त्वमकिश्चित्करमिति तत्त्वम् ।
अयमाशयः, निरूपितत्वसम्बन्धावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपितस्वत्वत्वावच्छिन्नविशेष्यत्वाऽवच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबोध एव तादृशानुपूर्वीशानस्य कारणत्वाद्राना पुरुष इत्यादौ भेदान्वयबोधः कुतो नेति । नामाथेप्रकारकभेदान्वयबोधम्प्रति इति ।
निपातातिरिक्त विशेष्यकेत्याशयः, तेन घटो नास्तीत्यादौ विशेष्यतासम्बन्धेन घटप्रकारकबोधस्य नार्थाऽभावे प्रतीतावपि दोषाऽभाव इति । विशेष्यतासम्बन्ध एव कार्यतावच्छेदक इति बोधनार्थमाह समानेति । नतु नामार्थान्तरस्येति ।
अत्र नामार्थस्येत्येतावन्मात्रोक्तो नीलो घट इत्यादौ घटत्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताया भानाद्दोष इत्याशयेनाह नामार्थान्तरस्येति । अयमर्थः, पदार्थपदार्थतावच्छेदकयोरेकस्या एव शक्तर्विद्यमानत्वेन न नामार्थान्तरत्वमिति तात्पर्यात् अत्र के चिदिति ।।
नामार्थप्रकारकभेदान्वयविषयकशाब्दबुद्धित्वावच्छिन्नम्प्रति समानविशेष्यताप्र