________________
शाखार्थं कलोपस्कृतः
अथ राजा पुरुष इत्यादौ पदार्थोपस्थित्यादिसत्त्वेन कथन्न भेदान्वयबोधः, सामख्या कार्यजनने उक्तनियमभङ्गरूपायाः प्रयोजनक्षतेरकिंचि त्करत्वात् । सामग्रीसत्त्वे अवश्यं कार्यमिति नियमात् । न च तत्र भेदान्वयवोधौपायिकाकाङ्क्षाविरहाच्छाब्दसाममयेवासिद्धेति बाच्यम् ? समभिव्याहाररूपाकाङ्क्षायास्तत्रापि सत्त्वात् ।
१४३
त्तिधर्मवत्त्वम् । तदेव तादात्म्यरूपसम्बन्धः । नीलोऽपि घट एवेति नीलवृत्ति नीलवं घटवृत्ति भवति । नीलत्ववत्त्वं घटे वर्त्तमानं तेनैव सम्बन्धेन । घटे यथा नीलपदार्थस्यामेदान्वय एवम्मुखश्चन्द्र इत्यादावपीति ।
नन्वेवं नीलस्य घट इत्यादावपि गुणरूपनीलत्वस्य घटे विद्यमानत्वात् तेन सम्बन्धेनाऽभेदान्वयबोधस्स्यादित्याशयेनाह समानविभक्तिकत्वन्तन्त्रमिति । इति वदन्तोति ।
अत्रारुचिप्रकारः प्रतियोग्य भावान्वयौ च तुल्ययोगक्षेमावितिन्यायेन मुखं चन्द्र इत्यत्र यदि स्ववृत्याह्लादकत्वरूपाऽभेद सम्बन्ध एव स्यात् "न पद्मम्मुखभेवेदन्न भृङ्गौ चक्षुषी इमे" सुखन्न चन्द्र इत्यत्र नञा तत्सम्बन्धावच्छिन्नप्रतियोगिताकाऽभाव एव -प्रत्येतव्यः ! प्रतियोग्यभावान्वययोस्तुल्ययोगक्षेमत्वात् । एवञ्च पचादिसदृशाहूलादबनकमुखे पचादिवृत्त्याह्लादजनकत्वं पद्मादिभ्यो भेदश्च कथं सिद्धयेत् स्ववृत्त्याह्वादक-स्वरूपाऽभेदसम्बन्धेन पद्मस्य मुखे विद्यमानत्वात् इत्येवमुक्त्या पूर्वोक्तप्रकार एव - ज्यायान्नायमिति गदाधरभट्टाचार्याणामभिप्रायः ।
नच सम्बन्धान्तरावच्छिन्नाऽभाव एव बोधविषय इति वाच्यम् ? नीलञ्जलम् -नीलन्न जलमितिवाक्ययोरेककालावच्छेदेनैवाभ्रान्तानामपि शाब्दबोधापत्तेरित्यलम् | अथ राजापुरुष इति ।
अन राजपदजन्यरानीपस्थितिः पुरुषपदजन्यपुरुषोपस्थितिश्चास्त्येव, पुरुषे राजसम्बन्धयोग्यताया विद्यमानत्वेन योग्यताज्ञानमप्यस्त्येव, राजा पुरुष इति वाक्यं राजसम्बन्धिपुरुषविषयक शाब्दबोधञ्जनयत्वित्याकारकताम्पर्यज्ञानं विद्यत एव भेदाsन्वयसम्पादकसामग्रीसत्त्वे स्वत्वसम्बन्धेन राजवान्पुरुष इत्याकारकशाब्दबोधे निपातातिरिक्तनामार्थयोर्भेदेनान्वयबोधोऽव्युत्पन्न इतिनियमभङ्गस्य नैव वाधकत्वम्, तलदाव्यहितोत्तरतत्पदत्वरूपाऽसत्तिऽज्ञानमिति सभयकारणसत्वे भेदान्वयबोधस्स्यादेवेत्याशयेनाशङ्कते अथेति ।
ननु समभिव्याहाररूपाकाङ्क्षायाश्याब्दबोधप्रयोजकत्वे घटः कर्मत्वम् आनयनम् कृतिरिस्थादावपि तादृशसामग्रीसर्वाद् घटनिष्टकर्मतानिरूपकानयनमिति शाब्दबोधआपतेदत आनुपूर्वी विशेषरूपाया आकाङ्क्षाया अपि प्रयोजकत्वं वाच्यं सा च भेदान्वयबुद्धी याहशी सामग्री अपेक्ष्यते न राजापुरुष इत्यादौ तादृशीति नापत्तिरत्याश