________________
१४२
व्युत्पत्तिवादः केचित्त रूपकस्थले चन्द्रादिपदस्य चन्द्रादिसहशे न लक्षणा कि. न्तु तत्र मुख्यार्थचन्द्रादेरेवाभेरभ्रमो मुखादौ । मुखं न चन्द्र इत्यादिवि. शेषदर्शनदशायां च न तत्र शाब्दोऽभेदप्रत्ययः, अपि तु शब्दजन्यविश. कलितपदार्थोपस्थितिमूलको मानस एवाहााभेदभ्रम इत्याहुः ।
परे तु तादात्म्यातिरिक्तसंबन्धेन नामार्थयो न्वयबोधः । तादात्म्यं च प्रकृते तवृत्तिधर्मवत्वम । एवं च नीलो घट इत्यादौ स्ववृत्तिनोलत्वादिन मत्वसम्बन्धेन घटायंशे नोलपदार्थस्येव मुखं चन्द्र इत्यादी स्ववृत्त्याहा. दकत्वादिमत्त्वसम्बन्धेन मुखादौ चन्द्रादेरन्वयबोधः, साद्दशार्थान्वयबोधेऽपि समानविभक्तिकत्वं तन्त्रमित्यतो नातिप्रसङ्ग वदन्ति । नाकारकानुभवजनकत्त्वं सार्वत्रिकन्तथा च राजपदस्य राजसम्बन्धिनि लक्षणोपगमेन राजसम्बन्ध्यभिन्नःपुरुष इत्यभेदान्वयबोध एव न भेदान्वय इति न कोऽपि विरोध इति तत्त्वम् ।
न च वैयाकरणमतानुसारेण समासे राजपुरुष इत्यादी विशिष्टशक्तिरेवास्तु राजसम्बन्धिपुरुषरूपायें तथा च सम्बन्धिनि लक्षणाश्रयणकिमर्थमिति वाच्यम् ? "एष वन्ध्यासुतो याति खपुष्पकृतशेखरः। कूर्मक्षीरचये स्नातश्शशशृङ्गधनुर्द्धर" इत्यादिवाक्ये शशशृङ्गादिपदार्थस्य मिथ्याभूतत्वेन... समरसपातिपदिकसंशयोरसिद्धत्वापत्तेरसत्स्यानिभूते शशशृङ्गादिपदार्थे शक्त्यसम्भवात् । असत्पदार्थे ज्ञानकरणेन्द्रियव्यापारी न भन्नतीति सर्वप्रसिद्धो व्यवहारः । विशिष्टशक्त्यभावे तु स्वार्थपर्यवसायिनाम्पदानामाकावावशात्परस्परसम्बन्धरूपन्यपेक्षात्मफसामाश्रयमेन नोक्तदोषौ । तथा च न विशिष्टशक्तिरिति वर्णनान् ।
वस्तुतस्तु स्वप्नाद्यनुरोधेन बौद्धपदार्थस्याश्यकत्वेन शशशृङ्गादौ बौद्धशक्तिमादाय विशिष्टशक्ति स्वीकारे क्षतिविरहः । अत एव “अत्यन्ताऽसत्यपि ह्यर्थे ज्ञानं शब्दः करोतिचे"तिहhक्तिः। असत्ख्यातेरपि आरोपादिना प्रमात्मकत्वेन तत्त्व. सम्भवात् । केचिस्विति ।
आलङ्कारिकमतमाह सादृश्ये लक्षणायां रूपकोपमयो दो न स्यात् १ उपमायामपि चन्द्रसादृश्यस्य विद्यमानत्वात् । विशकलितेति । __ परस्पर सम्बन्धरहिता मुखपदार्थस्य चन्द्रपदार्थस्य चोपस्थितिः । बाधकालीने. छाजन्यज्ञानमाहार्यमिति सामान्यरूपेण बाघज्ञानकाले भ्रमो न भवति बाधज्ञानकालेऽपि यो भ्रमो भवति स आहार्यभ्रमः। मानस एवाहार्यभ्रम इति । परे स्विति तादात्म्येति ।। तवृत्ति प्रतियोगिवृत्तीति । नीलो घट इत्यत्र स्ववृत्तिनीलत्ववत्त्वमेवात्र तट्ट