________________
शास्त्रार्थकलोपस्कृतः
विशेषणतयान्वितेन
गुरुमते तु विध्यर्था पूर्वाशे धात्वर्थभक्षणादेः प्रतियोगितयान्वयेऽपि न क्षतिः ।
१४१
नमुपस्थाप्याभावेन
राजपुरुष इत्यादिसमासस्थले तु पुरुषादिपदार्थेन समं राजादिपदार्थस्य न भेदान्वयबोधः किन्तु तेन समं विभक्त्यन्तार्थविशिष्टलाक्षणिकराजादिपदोपस्थाप्य राज सम्बन्ध्यादेरभेदान्वयबोध एवेति न एवं मुखं चन्द्र इत्यादिरूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशलक्षणया चन्द्रादिसदृशाभेदान्वयबोध एव न तु
दोषः ।
सादृश्यादि संबन्धेन
चन्द्रादेर्मुखादावन्वय इति न तत्र व्यभिचारः ।
Sभावानां बलवदनिष्टानुबन्धित्वाभावरूपत्वेन प्रकृते विरोधाऽभाषादेतदुत्तरस्य सामान्यरूपेण पूर्वमेवोक्तत्त्वात् । गुरुमते त्विति ।
प्रभाकरंनामकमीमांसकमत इत्यर्थः । तन्मते धात्त्वर्थं भक्षणस्य स्वप्रतियोगिकत्वसम्बन्धेन नञर्थाऽभावेऽन्वयः, अभावस्य च प्रयोज्यत्वसम्बन्धेन लिङर्थाऽपूर्वेऽन्वयः, सन्मतेऽपूर्वपदेन पुण्यं गृह्यते । एवञ्च कलञ्जभक्षणप्रतियोगिकाभावप्रयोज्यमपूर्वमिति शाब्दबोधः । अस्मिन्मते कलञ्जभक्ष णाऽसावब्रन्यम्पुण्यमेव कलञ्जभक्षणमनिष्टजनकमिति न भवति । नैयायिकमते तु कलञ्जभक्षणमनिष्टजनकम्भवति कलञ्जभक्षणाऽभावः पुण्यजनको न भवतीति मतद्वयवैलक्षण्यम् । विध्यर्थश्चाऽपूर्वम् क्रिया क्षणविनाशिनी न कालान्तरभाविनस्स्वर्गादेत्साधनायोपपद्यते इति • कालान्तरस्थायिक्रियातो भिन्नं कार्यमपूर्वं लिङादयो बोधयन्ति कार्याभिधानं कृतिमनभिदधतां लिङादीनान्नीपपद्यतेऽतः कृतिमप्यभिदधति अपूर्वश्च इति तद्ग्रन्थः । इष्टसाधनत्त्वन्न लिडर्थः १ "अहरहस्सन्ध्यामुपासीत " प्रत्यहं शुचिरसन्ध्यामुपासीते"त्यादिश्रुतिप्रतिपाद्यनित्यकर्मणः फलजनकत्त्वाभावेन सन्ध्योपासनमिष्ट जनकमितिव्यवहाराऽप्रतीतेः । कलअ
भक्षणप्रतियोगिकाऽभाववदपूर्वमुत्पादयेदिति बोधः ।
राजपुरुष इति ।
अयमभिप्रायः, पीतमम्बरं
यस्येतिविग्रहबाक्यात् यत्सम्बन्धिपीताऽभिन्नाऽम्बरमिति बोधः । पीताम्बर इतिहुव्रीहिसमासाच्च पीताऽभिन्नाम्बरवानिति बोधः । समासविग्रहवाक्ययोर्विभिन्नाकारकबोधोदयदर्शनेन समासविग्रहवाक्ययोर्न समा
तथा
च
नित्यकर्मेति — कर्म त्रिविधम् १ नित्यम् २ नैमित्तिकम् ३ काम्यचेतिकर्मकाण्डोपासकाः । तत्र यस्मिन् कृते किमपि फलन्न अकृते च प्रत्यवायो महान् भवतीत्येतादृशङ्कर्म सन्ध्योपासनादिकन्नित्यम् । द्वितीयं निमित्ताज्जातन्नैमित्तिकन्तत्र न पूर्ववद् वैलक्षण्यम् । किन्तु करणे पुण्यमकरणे पापं यथा राहूपराग ( चन्द्रादिग्रहण ) स्नानादिकम् । तृतीयं यत्किमपि कमनीयं साफल्यवाञ्छया मनसिकृत्यानुष्ठीयते तत् । यथा पुत्रादिलिप्सया पुत्रेष्टियागादिकम् ।