________________
व्युत्पत्तिवादः। विभक्तथर्थमन्तरा कृत्य तयोरप्यन्वयबोधात्साक्षादिति । निपातातिरिक्तत्वादिविशेषणाद् भूतले न घटः घटो न पट इत्यादी घटादेनबर्थाभावेन, मुखं चन्द्र इत्यादौ मुखचन्द्रादीनामिवार्थसादृश्यादिना,न कलजं भक्षये दित्यादौ नैयायिकमते नबुपस्थाप्येन बल वदनिष्टाननुष. धित्वविशिष्टेष्टसाधनस्वादिरूपविध्यर्थाभावेन धात्वर्थभक्षणादेरनुयोगितया, साक्षादन्वयबोधस्याऽव्युत्पन्नत्वादिति ।
निपातविभक्त्यर्थद्वयातिरिक्तनामार्थनिष्ठा या भेदसम्बन्धावच्छिन्ना प्रकारता ताहशप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति विशेष्यतासम्बन्धेन नामपदवृत्तिज्ञानजन्योपस्थितिःप्रतिबन्धिकेति कार्यकारणभावम्प्रकल्प्य राजा पुरुष इत्यादौ भेदान्वयस्याऽशक्यत्वमिति ग्रन्थाशयः । न कलञ्जम्भक्षयेदिति ।
विषाक्तेनैव वाणेन हतौ यो मृगपक्षिणौ ।
तयोर्मासङ्कलझं स्याच्छुष्कमांसमथाऽपि वा । इति कोश: । अत्र नञर्थोऽभावस्तत्र लिङर्थस्य बलवदनिष्टाऽननुबन्धित्वविशिष्टेष्टसाधनत्त्वरूपस्य स्वप्रतियोंगिकत्वसम्बन्धेनाऽन्वयस्तस्याभावस्य स्वरूपसम्बन्धेन धात्वर्थभक्षणेऽन्वयः । एवञ्च बलवट निष्टाऽननुबन्धित्वविशिष्टेष्टसाधनत्वप्रतियोगिकाऽभावविशिष्टं कलञ्जभक्षणमिति बोधः । बलवदनिष्टाऽजनकत्त्वस्य विशेषणस्य इष्टसाधनत्वविशेष्यस्य चाऽभावप्रयुक्तो विशिष्टाऽभावः । एवञ्च बलवदनिष्टजनकत्त्वन्नैयायिकमते भक्षणरूपधात्वर्थ प्रतोयते ।
नच बलवदनिष्टाऽननुबन्धित्वविशिष्टेष्टसाधनस्वविशिष्टकृतिसाध्यत्त्वज्ञानन्न तद्विषयकप्रवृत्तिम्प्रति तद्विषयकेष्टसाधनत्त्वप्रकारकज्ञानङ्कारणमिति नियमानुरोधेन कारणम् । विशेष्यविशेषणभावे विनिगमनावैकल्येन गुरुधर्मावच्छिन्न कारणत्वाऽपत्तेः । एवञ्च बलवदनिष्टाननुबन्धित्त्वज्ञानमिष्टसाधनत्वज्ञानं कृतिसाध्यत्वज्ञानञ्च पार्थक्येन कारणम्परस्परसहकारित्वेन नैकैककारणसत्त्वे कार्याऽपत्तिदोषः । एवञ्च शक्यतावच्छेदकगौरवभयेन कलक्षभक्षणे कृतिसाध्यत्वेष्टसाधनत्वरूपविध्यर्थसत्त्वान तयोर्विध्यर्थत्त्वं येन नमा तदभावो वक्तु शक्य इति युक्तिसिद्धव्याख्यानेन च बलवदनिष्टाननुबन्धित्त्वस्यैव वि. व्यर्थत्वेन ना तदभाव एव युक्ततर इति विशिष्टस्य विध्यर्थस्य नजाऽभावो ग्रन्थकृतां कथमिति वाच्यम् १ विशेष्याऽभावप्रयुक्तविशिष्टाऽभावो विशेषणाऽभावप्रयुक्तविशिष्टाऽभाव उभयाऽभावप्रयुक्तविशिष्टाभाव इति नियमस्य सार्वजनीनत्वेन तत्तद्विशिष्टा
विशिष्टामाव इति-अयमभावत्रिविधो भवति, विशेषणाभावविशेष्यामावोमयाभावप्रयुक्तभेदात् । यथा हि अयोध्यास्थे ब्राह्मणे काशीस्थत्वविशिष्टब्राह्मणत्वाभावो हि काशीस्थत्वरूपविशेषणा. भावप्रयुक्तविशिष्टाभावेन । काशीस्थे शुद्ध काशीस्थत्वविशिष्टब्राह्मणत्वामावो विशेष्याभावप्रयुक्तः । अयोध्यास्थे पशौ चोमयाभावप्रयुक्त इति रोत्या सर्वत्रैव विशिष्टभावोऽवगन्तव्यः ।