________________
शास्त्रार्थकलोपस्कृतः। भेदान्वयबोधश्च प्रातिपदिकार्थधात्वर्थयोः प्रत्ययार्थेन क्वचिनि पातार्थेन च सममेव जायते न त्वन्येन । सत्यपि पदार्थोपस्थितियोग्यताज्ञानादिरूपकारणकलापे राजा पुरुषः भूतलं घट इत्यादौ पुरुषाचंशे राजभूतलादेः स्वत्त्वाघेयतासंबन्धेन ।
तण्डुलः पचति चैत्रः पच्यते इत्यादौ कर्मत्वकर्तृत्वादिसंबन्धेन तण्डुलचैत्रादौ पाकादेः स्वकमकत्वकर्तृकत्वादिसंबन्धेन पाकायंशे वा तण्डुलचैत्रादेरन्वयाबोधान्निपातातिरिक्तप्रातिपदिकार्थयोः क्रियातादृशप्रातिपदि. कार्थयोश्च भेदेन साक्षान्वयबोधस्याव्युत्पन्नत्वात् । भेदान्वयबोधश्चेति ।
अभेदान्वयबोधप्रकारम्परिसमाप्य सम्प्रति मेदान्वयबोधप्रकारम्प्रवक्तुमारभ्यते भेबान्वयेति । अयं ग्रन्थाशयः, भेदसम्बन्धावच्छिन्ननामार्थनिष्ठप्रकारत्तानिरूपितविशेध्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति विभक्तिनिपान्तान्यतरपदजन्योपस्थितिः कारणम् । उदाहरणश्च राज्ञःपुरुष इति, अत्र राजपुरुषयोर्भेदलक्षणस्वस्वामिभावसम्बन्धः । केवलस्वत्वस्यैव षष्ठयर्थत्वे तु राज्ञःपुरुषे भेदलक्षणस्वत्वसम्बन्ध इति । तथाच मेदसम्बन्धावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नम्प्रति विभक्तिजन्यतदर्थोपस्थितिःकारणम् । अत एवं राजा पुरुष इत्यत्र न तादृशभेदलक्षणशाब्दबोधः। निपातोदाहरणन्तु घटो न पट इति, अत्र घटपटयो दलक्षणःप्रतियोग्यनुयोगिभावस्सम्बन्धः ।
किञ्च पटस्य घटे स्वप्रतियोगिकभेदविशिष्टत्वाख्यसम्बन्धः पटप्रतियोगिकभेदवान् घट इतिशाब्दबोधात् । एवञ्च भेदसम्बन्धावच्छिन्नपटत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नम्प्रति नअपदजन्यतदर्थोपस्थितिःकारणम् । राजा पुरुष इति, अत्र स्वत्वसम्बन्धेन राजविशिष्टःपुरुष इति बोधो न भवति । भूतले घट इति, अत्र आधेयत्वसम्बन्धेन भूतलविशिष्टो घट इति बोधो न भवति तस्मादुक्तनियमःप्रतीतिबलेनाङ्गीकरणीय इत्याशयः । प्रातिपदिकार्थयोर्दोषम्प्रदय धात्वर्थप्रातिपदिकार्थयोर्वक्तुमारभते तण्डु. ल पचतीति । नचायम्प्रयोग एव न भवति अनभिहिताधिकारेण कर्तरि लटो विधानेन तण्डुलगवकर्मत्वस्यानुक्तत्वात् , चैत्रःपच्यत इत्यत्र कर्मणि लकारविधानेन कतृत्वस्यानुक्तत्वादुभयत्र द्वितीयातृतीययोरेव विधेयत्वादिति वाच्यम् १ प्रतिपदिकार्थाऽपेक्षया कर्मत्वकर्तृत्वयोर्यत्र विशेष्यतयाऽन्वयबोधतात्पर्यन्तत्रैव कर्मणि द्वितीया" "कर्तृकरणयोस्तृतीया" इतिसूत्राभ्यां द्वितीयातृतीययोविधानमुक्तप्रयोगयोस्तु कर्मत्वकर्तृत्वयोस्संसर्गतया बोध एव तात्पर्यन्नतु विशेष्यतया । तथाच प्रातिपदिकार्थस्योक्तसम्बन्धेन धात्वर्थेऽन्वयःकुतो नेति प्रश्नाशयेनोक्तप्रयोगयोस्सौष्ठवात् ।