________________
१३८
व्युत्पत्तिषादः 'मर्श भेदसामान्यापेक्षया घटभेदस्य लघुत्वेन लाघवज्ञानानुमित्यापत्तिसम्भवेन ग्रन्थस्य सयुक्तिकत्ववर्णनात् । अस्मिन्वाक्ये पदार्थनिर्देशःधर्मी घटः, घटभेदस्यत्र प्रकारः, प्र. कारतावच्छेदको घटःप्रकारतावच्छेदकतावच्छेदकं घटत्वमेव धर्मितावच्छेदकमपि तदेव घटे घटत्वं समवायेन भासत इति नियमात् । समवायेन घटत्वं, घटे प्रकारः । घटत्वावच्छिन्न प्रतियोगिताकत्वसम्बन्धेन घटभेदे घटपदार्थ:प्रकारः, भेदश्च स्वरूपसम्बन्धेन विशेष्यभूतघटे प्रकार इति । घटे च घटभेदस्याऽसम्बन्धःघटे घटभेदानुमितेनिवारणाय घंटत्वनिष्ठेन घटत्वावच्छिन्नभेदनिष्ठप्रकारतानिरूपितधर्मितावच्छेदकतालक्षणसम्बन्धेन शाब्दबोधम्प्रति घटत्वभेदःकारणमिति पृथक् कार्यकारणभावो न कर्तव्यो भवति त. बर्मान्यवृत्तिविषयतासम्बन्धेनेति कार्यकारणभावेनैव गतार्थत्वात् । प्रकारतावच्छेदक विशेष्यतावच्छेदकञ्च घटत्वमेवेत्यभिमानः । दण्डवान् दण्डवान् घटी घट इत्यादिसकलापत्तिवारणं लाघवेन जातमिति विविच्याह सकलातिप्रसङ्गेति ।
ननु येन सम्बन्धेन यद्धविच्छेदेन यद्वत्ता येन वाक्येन न-हितेन प्रतीयते तेन वाक्येन नघटितेन तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगिताकाऽभावस्तद्धर्मावच्छेदेनैव प्रत्याय्यत इतिनियमेन स्वरूपसम्बन्धेन घटी घट इति वाक्याद् घटत्वावच्छेदेन घटाऽभेदवत्ताप्रतीतेरसत्त्वात्त दवच्छेदेन घटाऽभेदाऽभावप्रतीतेरकिञ्चनत्वात्कथं लाघवकल्पनं अन्यकृतामिति चेन्न १ येन सम्बन्धेन यद्धविच्छेदेन यद्वत्ताप्रतीतो यद्वाक्यं साकाझं तेन वाक्येन नघटितेन तेन सम्बन्धेन तदवच्छेदेन तदभावःप्रत्याय्यत इत्याकारको नियमः । यद्यपि छटो घट इति वाक्यन्न तादृशशाब्दबोधजनकन्तथापि तादृशशाब्दबोधाय तद्घटो घट इति वाक्यं साकाङ्क्षमस्त्येवेति व्याख्यानात् । अत्रास्मद्गुरवः,
ननु कालिकादिसम्बन्धेन समवायसम्बन्धेन घटत्वविशिष्टस्य घटत्वविशिष्टेऽभेदा. न्वयः प्रतीतिसिद्धः, एवञ्च तत्र घटत्वनिष्ठनिरवच्छिन्नावच्छेदकताकाऽभेदसम्बन्धाव. च्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधस्य घटत्वेऽपि विद्यमानत्वाद् घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानव्यापको नैव स बोध इति चेन्न १ घटत्वनिष्ठनिरवच्छिन्नावच्छेदकताविशिष्ट विच्छेदकतासम्बन्धेन शाब्दबोधस्य व्याप्यत्ववर्णनात् । अवच्छेदकतावैशिष्टयञ्च स्वनिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितत्त्व स्वावच्छेदकसम्बन्धावच्छिन्नत्वमित्युभयसम्बन्धेन । उद्देश्यपदार्थे प्रकारत्वम्विधेयपदार्थे विशेष्यत्वं यत्र तत्र तु शाब्दबोध इष्ट एव विशेष्याशेऽधिकावगाहिशाब्दबोधेऽपि । तथाच तत्र दोषवारणाय व्याप्यकोटौ प्रकारताविशेष्यः तयोस्स्थाने विधेयतोद्देश्यतयोःप्रवेशेन क्षतिविरहादित्याहुः ।
नसमभिव्याहार इति-नमोऽसमभिव्याहारे येन सम्बन्धेन येन रूपेण यत्र यत्त्वम्प्रतीयते नमसमभिव्याहारे तत्सम्बन्धावछिन्नतद्धर्मावच्छिन्नप्रतियोगिताकाभाववस्वन्तत्र प्रतीयते इति नियमो घटवद् भूतलम् घटाभाववद् भूतलं घटवन्न भूतलमित्यादौ क्लप्तः।