________________
शास्त्रार्थकलोपस्कृतः एको द्वाविति । ___ एवं कर्म गच्छतोत्यादौ च कर्मत्वत्वाद्यवच्छिन्ने आधेयतासम्बन्धेन तद्वतोऽन्वयबोधवारणाय कर्मत्वत्वाद्यवच्छिन्नावच्छेदकताघेयतासम्बन्धावच्छिन्नप्रकारतानिरूपितधर्मितावच्छेदकतासम्बन्धेन शाब्दबोधे कर्मत्वत्वादिभेदस्य घटो न घट इत्याद्यनुमितेः शाब्दबोधस्य च वारणाय घटत्वावच्छिन्नप्रकारतानिरूपितधर्मितावच्छेदकतासम्बन्धेनानुमितौ शाब्दबोधे च घटत्वादिभेदस्य हेतुत्वान्तरकल्पनमनादेयमेव । तद्धर्मभेदस्यकैककारणतयैव सकलातिप्रसङ्गवारणसंभवादिति कृतं पल्लवितेन ।
एकपदवाच्या एकत्वेन रूपेण घटादिव्यक्तिरेव तदुत्तरविभक्तरप्येकत्वमर्थः । एक इस्यस्य एकत्ववान् एकत्ववानित्यर्थः प्रकृत्यर्थप्रत्ययार्थी एकत्वसंख्याविशिष्टघटव्यक्तिमुद्दिश्यकत्वविधानम् । उद्देश्या एकव्यक्तिः उद्देश्यतावच्छेदकमेकत्वम् । विधेयमप्येकत्वमेव उद्देश्यातावच्छेदकविधेययोरक्येन समवायसम्बन्धेनैकत्वसंख्याया उद्देश्यभृतव्यक्तावन्वयस्तद्वारणाय एकत्वनिष्ठेन एकत्वत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितसमवायसम्बन्धावच्छिन्नावच्छेदकतावच्छेदकत्वसम्बन्धेन शाब्दबोधम्प्रत्येकत्वत्वभेदःकारणमिति कार्यकारणभावो न कर्तव्यो भवति । एकत्वत्वयोर्मेदाऽभावात्पूर्वोक्तेनैव वारणे लाघवमिति तात्पर्येणाहानुदयादिति । एवं कर्म गच्छत्तीति । ___ अयम्भावः, ग्रामङ्गच्छतीत्यत्र शाब्दबोधो भवति ग्रामपदार्थ आधेयतासम्बन्धेन द्वितीयार्थकर्मतायाम्प्रकारः प्रकारतावच्छेदकत्र ग्रामत्त्वम् विशेष्यतावच्छेदकं कर्मतास्वम् । परन्तु ग्रामस्य कर्मपदार्थत्वेन कर्मपदवाच्यत्वेऽपि कर्म गच्छतीति न भवतीति तात्पर्यणाह एवमिति ।
कर्म गच्छतीत्यत्र कर्मपदस्य प्रकृतिभूतस्य कर्मत्वावच्छिन्ने शक्तिःतदुत्तरलुप्तद्वितीयाविभक्तेःकर्मत्वावच्छिन्ने कर्मत्वे शक्तिः प्रत्ययार्थप्राधान्यात् । तत्र शाब्दबोधवारणाय कर्मस्वत्वावच्छिन्नावच्छेदकताकाऽधेयतासम्बन्धावच्छिन्नप्रकारतानिरू. पितधर्मितावच्छेदकतालक्षणसम्बन्धन शाब्दबुद्धित्वावच्छिन्नम्प्रति कर्मत्वत्वभेदः कारणमिति पृथग्लक्षणन्न कर्तव्यम्भवति पूर्वोक्तलक्षणेनैव वारणसम्भवादिति तात्पर्यम् । घटो न घट इति । ___ नच घटमेदव्याप्यवान् घट इत्याकारको यदि परामर्शस्स्यात्तदैव घटत्वावच्छिन्नधर्मिकघटत्वावच्छिन्नप्रतियोगिताकभेदानुमितिस्स्यात्परन्तु तादृशपरामर्शस्तु भवत्येव नहि आरोपादिना यदि कथञ्चिद्भविष्यति तादृशोऽपि परामर्शस्तर्हि ताशस्यानुमितिबनकत्वानहत्वमिति कथं ग्रन्थ इति वाच्यम् १ भेदव्याप्यवान् घट इत्येवंविधे परामूर्तत्वम्-पृथिव्यप्तेजोवायुमनांसि मूत्र्तानि तद्वृत्ति । अपकृष्टपरिमाणवत्त्वञ्च तद् ज्ञेयम् ।