________________
व्युत्पत्तिवादः। त्ववर्णनात् । नन्वेवमपि जातित्त्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानत्वावच्छिन्नस्य नैव व्यापकत्वसिद्धिप्रत्याशा, समवायसम्बन्धावच्छिन्नजातित्वावच्छिन्नावच्छेदकताकप्रकारतानिरूपिता या धर्मिता तादृशधर्मितानिरूपितकालिकसम्बन्धावच्छिन्नावच्छेदकतावच्छेदकत्वस्य जातिश्वे प्रमेयत्वे वा विद्यमानत्वादिति कथम्ब्यापकत्वलक्षणसमन्वय इति चेन्न ? उभयोरवच्छेदकत्वपदार्थयोरेकसम्बन्धावच्छिन्नत्वस्यैव व्याप्यलक्षणांशे निवेशः। एवञ्च कालिकसम्बन्धसत्तया नापत्तिरिति समाधानात् ।
ननु विधेयांशेऽधिकावगाहिशाब्दबोधो नवीनैस्स्वीकृत एवञ्चास्मिन्पक्षे घटो नी. लघट इत्यत्र घटत्वपदार्थेऽपि निरवच्छिन्नघटत्वनिष्ठावच्छेदकताकप्रकारतानिरूपित निरवच्छिन्नावच्छेदकत्वसम्बन्धेन शाब्दबोधस्य वर्तमानतया तत्र घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानस्वावच्छिन्नप्रतियोगिताकाऽभावात्कथङ्कारम्व्यापकत्वलक्षणसंघटनेति, व्या. 'प्यलक्षणे केवलशुद्धघटत्वमात्रावच्छिन्नत्वनिवेशेन तु नैव निर्वाहोऽभ्युपेयो ? नीलघटो नीलघट इत्येवम्बिधशाब्दबोधस्य वज्रलेपायितत्वात् । इति चेन्न १ घटत्वादिगतैक. स्वान्यवृत्तिविषयतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन ज्ञानस्वावच्छिन्नम्प्रति घटस्वगतैकत्वभेदस्य कारणत्वाङ्गीकारात् ।
नन्वेवं समाधानेऽपि उद्देश्यांशेऽनिष्टाधिकावगाहिशाब्दबोधस्य जन्मसहस्रणाऽपि निवारयितुमशक्यत्त्वम् इति चेन्न ? निरवच्छिन्नघटत्वमात्रावच्छिन्न पका. रतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानस्वावच्छिन्नस्य व्यापकत्वसम्भवेनापत्तिपरिहारात् ।।
किञ्च निरवच्छिन्नघटत्वनिष्ठावच्छेदकतानिरूपितनीलत्वावच्छिन्नप्रकारतानिरूपितनीलत्वावच्छिन्नविशेष्यतानिरूपिताऽनवच्छिन्नाऽवच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानत्वावच्छिन्नस्य व्यापकत्वाञ्चेति मुद्राबोधनात् ।
घटत्वस्यैव विशेष्यतावच्छेदकत्वात्प्रकारतावच्छेदकत्वाच्च नाऽभेदान्वयबोध इत्याशयेनाह एवळचेति ।
ननु जातिमान् घट इत्यत्र घटत्वे जातित्वसत्त्वात् घटत्वनिष्ठावच्छेदकताकाऽभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधः। एवञ्च घटत्वावच्छिन्नप्रकारताको घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानव्याप्य इति तत्राs. भीष्टोऽमेदान्वयः कथमिति ।
किञ्च नीलघटो घट इत्यत्राऽपि घटत्वे शाब्दबोधः कथमिति चेन्न १ आद्यदोषवारणाय व्याप्यांशे निरवच्छिन्नत्व निवेशनात् । द्वितीयदोषवारणाय प्रकारतायां घटस्वेतरधर्मानवच्छिन्नत्वनिवेश इति तत्वात् । घटत्वेतरनीलत्वेनावच्छिन्नत्वेन नापत्तिरिति यावत् ।