________________
शास्त्रार्थकलोपस्कृतः वस्तुतस्तु तद्धर्मान्यवृत्तितिषयताप्लम्बन्धेन ज्ञान प्रति तद्धर्मभेदत्वेन हेतुता लाघवात् । एवं च घटत्वाद्यवच्छिन्नप्रकारतानिरूपितविशेष्यता. वच्छेदकतासम्बन्धेन शाब्दबोधं प्रति घटत्वाद्यन्यवृत्तिविषयतासम्बन्धेन ज्ञानत्वाचवच्छिन्नस्य व्यापकतया घटत्वादौ ताहशविषयतासम्बन्धेन ज्ञानत्वावच्छिन्नोत्पादकसामनोविरहेण न तत्र तादृशविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधापत्तिः। एवं च घटवान्घटवानित्यादिशाब्द. बोधवारणानुरोधेन धमितावच्छेदकतावच्छेदकादिनिष्ठप्रत्यासत्या कारणत्वान्तरमपि न करप्यते । एवमुद्देश्यतावच्छेदकविधेययोरैक्ये. नको द्वावित्यादिवाक्यादेकत्वद्वित्वाद्यवच्छिन्ने एकत्त्वद्वित्वादीनां भेदान्वयबोधानुदयाद्, एकत्वत्वद्वित्वत्वाद्यवच्छिन्नसमवायादिसंसर्गा. वच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपित्तसमवायादिसंसर्गावच्छिन्नावछेदकतावच्छेदकत्वादिसम्बन्धेन शाब्दबुद्धौ एकत्वत्वद्वित्वत्वादिभेदस्य। कमेव कार्यकारणमावमाह वस्तुतस्विति । अत्र विषयतापदेन यत्र यादृशी विषयता वर्तते सैव विशेष्यतारूपा विशेष्यतावच्छेदकतारूपा विशेष्यतावच्छेदकतावच्छेदकता. रूपा च एवम्प्रकारतारूपा प्रकारतावच्छेदकतारूपा प्रकारतावच्छकतावळेटकतारूपेति । द्रव्यं घट इत्यत्र घटत्वाद्भिन्न द्रव्यत्वन्तन्निष्ठविशेष्यतावच्छेदकताख्य एव विषयतासम्बन्धःघटत्वद्रव्यत्वधर्मयो दश्चेत्यभेदान्वयस्सिद्धः। घटो घट इति प्रत्युदाहरणम् । वस्तुतस्तु तद्धर्मान्यवृत्तिविषयतासम्बन्धेनेति ।
नच घटो द्रव्यमित्याकारकत्वावच्छिन्नप्रकारतानिरूपितधर्मितावच्छेदकतासम्बन्धेन शाब्दबुद्धित्त्वावछिन्नम्प्रति घटत्त्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानत्वावच्छि. न्नस्य नैवास्ति व्यापकता, तदपेक्षयतस्याऽल्पदेशवृत्तित्वात् किम्पुनस्समवायेन जातिमान् घटः प्रमेयवान् पटस्समवायेनेत्यादी जातित्वेन प्रमेयत्वेन वा धर्मित्वप्रकारस्वावच्छेदकत्वेन रूपेण घटत्वावगाहिशाब्दबोधस्य अवच्छिन्नघटत्वनिष्ठावच्छेदकताकप्रकारतानिरूपितधर्मितानिरूपितावच्छिन्नावच्छेदकत्वसम्बन्धेन शाब्दबुद्धित्त्वावच्छिनम्नति च व्यापकत्वन्न स्यादिति वाच्यम् ? निरवन्छिन्नत्वविशिष्टघटत्वनिष्ठावच्छेदकताकप्रकारतानिरूपितविशेभ्यतानिरूपितनिरवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दबुद्वित्वावच्छिन्नम्प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानत्त्वावच्छिन्नस्य व्यापकस्वसम्भवात् । जातित्त्वावच्छिन्नाबच्छेदकताप्रकारतानिरूपितधर्मितावच्छेदकतावन्छे. दकतासम्बन्धेन शाब्दबुद्धित्त्वावच्छिन्नम्प्रति प्रमेयत्त्वावच्छिन्नावच्छेदकताप्रकारता. निरूपितधर्मितावच्छेदकतासम्बन्धेन शाब्दबुद्धित्त्वावच्छिन्नम्प्रति च जातित्त्वान्यवृत्तिविषयतासम्बन्धेन प्रमेयत्वान्यवृत्तिविषयतासम्बन्धेन च ज्ञानत्वावच्छिन्नस्य व्यापक