________________
व्युत्पत्तिवादः । दण्डवानित्यादिवाक्याद्दण्डसंयोगत्वाद्यवच्छिन्नवति वारणाय दण्ड संयोगत्वाद्यवच्छिन्नाव
च्छेदकताकप्रकारतानिरूपितविशेष्यतानिरूपित संयोगत्वा द्यवच्छिन्नावच्छेदकतानिरूपितावच्छेदकतावच्छेदकत्वसम्बन्धेन शाब्दबोधे दण्डवादिभेदस्यापि पृथक्कारणत्वं कल्पनीयम् । अवच्छेदकतायां निरवच्छिन्नत्वनिवेशोऽपि पूर्ववद् बोध्यः ।
१३४
एवं दण्डवान् तदवच्छिन्नवदभेदान्वयबोधस्य
सावच्छिन्ना नतु प्रकारतावच्छेदकताऽपि सावच्छिन्नोभयोः प्रकारतावच्छेदकताविशेष्यतावच्छेदकतयोर्यत्र सावच्छिन्नत्वन्निरवच्छिन्नत्वं वा तत्रैव तादृशकार्यकारणभावप्रवृत्तिरित्याशयात् । एवं घटस्स इत्यत्रापि केवलप्रकारतावच्छेदकतैव सावच्छिन्ना नतु इति कार्यकारणभावाऽप्रवृत्त्या तद्धर्मभेदाऽभावेऽप्यभेदान्वयो युक्ततर इति प्रोचुः । "सस" इतिवत् दण्डवान् दण्डवानित्यत्राऽपि नाऽभेदान्वयबोध इष्ट इति कार्यकारणभावान्तरन्तद्वारकमाह दण्डसंयोगत्वावच्छिन्नेति । दण्डवान् दण्डवानित्यस्य दण्डसंयोगवान् दण्डसंयोगवानित्यर्थः । दण्डसंयोगवान्पुरुषविशेषः पुरुषो विशेष्यस्तत्र दण्डसंयोगः प्रकारो दण्डसंयोगे दण्डः प्रकारो दण्डे दण्डत्वम्प्रकारः । द्वितीये दण्डसंयोगवानित्यत्र पुरुषः प्रकारस्तत्र दण्डसंयोगः प्रकारस्तत्र दण्डः प्रकारस्तत्र दत्वम्प्रकारः । अत्र विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकन्तु दण्डत्वमेव प्रकारतावच्छेदकतावच्छेदकतावच्छेदकमपि दण्डत्वमेवेति दण्डत्वस्यैकत्वात्तयोर्भेदाऽभावान्नाऽभेदान्वयबोधः ।
नन्वेवं कार्यकारणभावे जातिमद्वान् दण्डवान् दण्डवान् जातिमद्वानित्यत्राऽभेदान्वयबोधस्सर्वाभिमतो न सिद्ध्येत्तथाहि, जातिमद्वान् दण्डसंयोगबान्पुरुषो विशेष्यस्तत्र दण्डसंयोगः प्रकारस्तत्र दण्डः प्रकारस्तत्र जातिः प्रकारः । एवञ्च विशेष्यतावच्छेदकतावच्छेदकतावच्छेदिका जातिःप्रकारतावच्छेदकतावच्छेदतावच्छेदिकापि जातिरेवेति सा च दण्डत्वमेवेति तयोर्भेदो नास्तीति चेन्न १ निरवच्छिन्नत्वनिवेशात् । निरवच्छिन्नविशेष्यतावच्छेदकतावच्छेदकत्वप्रत्यासत्या शाब्दबोधम्प्रति दण्डत्वधर्मभेदः कारणमितियोजना । एर्वान्नरवच्छिन्न प्रकारतावच्छेदकतावच्छेदकतावच्छेदकत्वमपि संयोजनीयमतो जातिमद्वान् दण्डवानित्यत्र दण्डत्वजातेर्जातित्वावच्छिन्नत्वेन सावच्छिन्नत्वमेव । विष्यतावच्छेदकतावच्छेदकतावच्छेदकतायाः एव दण्डवान् जातिमद्दानित्यत्र प्रकारतावच्छेदकतावच्छेदकतावच्छेदिकाया जातेर्जातित्वावच्छिन्नत्वेन
निरवच्छिन्नत्वाऽभावात्कार्यकारणभावाऽप्रवृत्त्या तद्धर्मभेदाभावेऽप्यभेदान्वयस्य निर्विवादत्वात् । यत्र कुत्राऽपि शब्दबोधस्तत्र ज्ञानमेव प्रधानकारणमेवञ्च ज्ञानस्य शाब्दबोधाऽपेक्षया व्यापकत्वव्याप्यधर्मावच्छिन्नकार्ये जननीये व्यापकधर्मावच्छिन्न कार्योत्पादकसामग्री अपेक्ष्यते इति अभिप्रायेणानेककार्यकारणभावे गौरवमिति सर्वानुगतमे