________________
शास्त्रार्थ कलोपस्कृतः
त्वोभयगत द्वित्वावच्छिन्न प्रतियोगिताकभेदोऽस्त्येव । नीलघटत्वोभयगत द्वित्वावच्छेदेन तु नीलघटत्वोभयगत द्वित्वावच्छिन्न प्रतियोगिताकभेदस्य योगिताकभेदस्य चाऽविद्यमानत्वात् ।
घटत्वगतैकत्वावच्छिन्नप्रति
यदि च विधेये विशेष्यता उद्देश्ये प्रकारता नतूद्देश्ये विशेष्यता विधेये प्रकारतेति तदाऽधिकावगाहिविशेष्यकबोध इष्ट एव । कार्यकारणभावे विशेष्यताम्प्रकारताञ्च विहायोद्देश्यताविधेयतयोर्निवेश इति तदा न कोऽपि विवादः ।
१३३
ननु स घटः जातिमान् घटःघटस्सःघटो जातिमानित्यत्रेष्टाऽभेदान्वयोपपत्तये प्रकारतावच्छेदकताया विशेष्यतावच्छेदकतायाश्च कार्यकारणभावे निरवच्छिन्नाया एव ग्रहणमित्युक्तम् | परन्तु स स इति जातिमान् इत्यर्थकवाक्ये विशेष्यतावच्छेदकतावच्छेदकस्य जातित्वस्य प्रकारतावच्छेदकतावच्छेदकस्य जातित्वस्य च भेदाऽभावेऽप्यभेदान्वयबोधाऽपत्तिः, तत्पदस्य जातिमति शक्तत्वेन प्रकारतावच्छेदिका विशेष्यतावच्छेदिका च जातिरेव नान्य: पदार्थः । जातिनिष्ठा प्रकारतावच्छेदकता, विशेष्यतावच्छेदकता तु जातित्वावच्छिन्नत्वेन सावच्छिन्नैव नतु निरवच्छिन्नेत्यनिष्टोऽभेदान्वयबोधो दुर्वार इति चेन्न १ तद्धर्मावच्छिन्नावच्छेदकताकप्रकारतानिरूपितधर्मितावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति तद्धर्मभेदः कारणमिति कार्यकारणभावोऽप्यङ्गीकार्य्यः । एवञ्च जातिमान् जातिमान् इत्यर्थ के स स इत्यत्र जातिमान् पदार्थो विशेष्यो विशेष्यतावच्छेदिका जातिरेव विशेष्यतावच्छेदकतावच्छेदक मेकञ्जातित्वमेव एवम्प्रकारो जातिमान् पदार्थः, प्रकारतावच्छेदिका जातिरेव प्रकारतावच्छेदकतावच्छेदकमेकखातित्वमेव । तथाच प्रकारतावच्छेदक विशेष्यतावच्छेदकतावच्छेदकजातित्वधर्मयोरेकस्वरूपत्वेन भेदाऽभावादभेदान्वयनिवारणस्य सौष्ठवात् । एतत्कार्यकारणभावोदाहरणन्तु जातिमान् प्रमेयवान् इति । अत्र विशेष्यतावच्छेदकतावच्छेदकआतित्वम् प्रकारतावच्छेदकतावच्छेदकम्प्रमेयत्वन्तयोश्च परस्परभेदादभेदान्वयबोध इष्टस्सङ्गच्छते ।
अत्र केचिन्मान्याः प्रकारतावच्छेदकताविशेष्यता वच्छेदकता च उभयी यत्र स्थले सावच्छिन्ना निरवच्छिन्ना वाऽस्ति तत्र स्थलेऽभेदान्वयेन शाब्दबुद्धित्वावच्छिन्नम्प्रति तद्धर्मभेदः कारणमित्येक एव कार्यकारणभावः । द्रव्यं घट इत्यत्र प्रकारतावच्छेदकविशेष्यतावच्छेदकघटत्वद्रव्यत्वयोर्निरवच्छिन्नत्वेन सिद्धिः | जातिमान् प्रमेयवानित्यत्र तु जातित्वप्रमेयत्वाभ्यां सावच्छिन्नत्वमेव विशेष्यतावच्छेदकप्रकारतावच्छेदकजातिपदार्थप्रमेयपदार्थयोरिति तयोर्भेदादभेदान्वयस्सम्पन्नः । " स स जातिमान् जातिमान्" इत्यत्र तु नाभेदान्वयबोधः । विशेष्यतावच्छेदकताप्रकारतावच्छेदकतयोर्जातित्वेन सावच्छि न्नत्वेऽपि प्रकारतावच्छेदकविशेष्यतावच्छेदकजातेस्सत्त्वाज्जातित्वघर्मयोर्भेदाऽभावात् । स घट इतिनिरुक्तोदाहरणे तु नाभेदान्वयानुपपत्तिस्तत्र केवलविशेष्यतावच्छेदकतैव