________________
१३२
व्युत्पत्तिवादः। तियोगिताकपर्याप्तेरनुयोगितावच्छेदकमपि घटत्वगतैकत्वमेव प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकमपि घटत्वगतैकत्त्वमेवेति, विशेष्यतावच्छेदकतापर्याप्तिस्तु घटत्वनिष्ठव वाच्या घटत्वमनुयोगि, अनुयोगितावच्छेदकन्च घटस्वगतैकत्वमेव नान्यत् । तादृशशाब्दबुद्धित्वावच्छिन्नम्प्रति घटो घट इत्यत्र तद्धर्ममेदः कारणमित्यादिनियमाऽप्रवृत्त्या नाभेदान्वयबोधः। परन्तु घटो नीलघट इत्यत्राऽमेदान्वयो भवत्येव, विशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदक घटत्वगतैकत्वमेव, प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छे. दकञ्च नीलत्वघटत्वैतदुभयगतद्वित्वमित्येकत्वद्वित्वयोः परस्परमेदात्तद्धर्मभेदरूपकारणसामग्रीसत्त्वेऽभेदान्वयो नवीनाभिमतस्सयुक्तिक एवेत्यप्यभिप्रायः । अत एव नववयवाऽपर्यासन्यायेनोभयपर्याप्ताऽपि प्रकारतावच्छेदकता वस्तुत्वेन प्रमेयत्वेन वाच्यत्वेन च रूपेण घटत्वेऽपि पर्याप्तवेति घटत्वगतैकत्वमेदाऽभावादेवं कार्यकारणभावः कथमिति वदन्तः परास्ताः ।
न च घटस्स इत्यत्र जातिमान् घट इतिप्रतीतौ जातित्वावच्छिन्नघटत्वनिष्ठप्रकारतावच्छेदकताक एवाऽभेदान्वयबोधस्तत्र घटत्वगतमेकत्वमेव तन्निष्ठप्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनयोगितावच्छेदकमिति तद्भेदस्य घटत्वगतैकत्वेऽभावेन कथङ्कार्यकारणभावो निदुष्ट इति । निरवच्छिन्नत्वनिवेशेन तु न व्यभिचार. वारणम् । नीलंघटो घट इत्यधिकावगाहिबोधे विधेयांशे शाब्दबोधानापत्तरिति वाच्यम् स्वविशिष्टधर्मावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिभूतावच्छेदकतानिरूपितावच्छेद्यतावदभेदसम्बन्धविच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकप. याप्त्यनयोगितावच्छेदकत्वसम्बन्धेन शान्दबुद्धित्वावच्छिन्नम्प्रति स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकंपर्याप्त्यनुयोगितावच्छेदकरूपधर्मभेदः कार णमिति प्र. बन्धः । वैशिष्टयञ्च स्वनिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताक. पर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन । एवञ्च घटत्वगतैकत्वे नीलघटत्वोभयगतद्वित्वभेदस्य सवेनापत्तिविरहात् । नच विधेयांशेऽधिकावगाहिशाब्दबोधस्थले निरुक्तरीत्या वारणेऽपि उद्देश्यांशेऽधिकावगाहिनीलघटो घट इत्यापत्तिरनिष्टाऽपि, तत्र नील. घटत्वोभयगतद्वित्वमेव हि विशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकन्तत्र घटलगतैकत्वभेदस्य प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकस्य सुतरां विद्यमानत्वेन कथं वारणोपाय इति वाच्यम् ? स्वनिरूपिताऽभेदसम्बन्धावच्छिन्नविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धिस्वावछिन्नम्प्रति स्वविशिष्टभेदस्यैव कारणत्वात् । वैशिष्टयञ्च स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्यनुयोगितावच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वं स्वनि
रूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिताकत्वमित्युभयसम्बन्धेन । तथाच घटस्वगतैकत्वावच्छेदेन नीलघट: