________________
शास्त्रार्थकलोपस्कृतः नीलघटो नीलघटो द्रव्यम् नीलपटो नीलघटः घटो नीलघट इत्यादिषु वाक्येषु आपत्यनुपपत्त्योरिणाय नीलत्वनीलघटस्वगतत्रित्ववृत्तिप्रकारतानिरूपितधर्मिताषच्छेदकतापर्याप्त्यनुयोगितावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति नीलत्वावच्छिन्ननीलनिष्ठाऽवच्छेदकतानिरूपितनिरवच्छिन्नघटत्वनिष्ठावच्छेदकताप्रकारताविशिष्टभिन्नत्वङ्कारणमिति कार्यकारणभाववर्णनेनेत्यभिधानात् ।
ननु यत्रोद्देश्यतावच्छेदकविधेयतावच्छेदकयोरैक्यं न कथमपि भेद एवन्तात्पर्येण कालिकसम्बन्धावच्छिन्नघटत्वविशिष्ट परतच्छन्दघटितं स घट इतिवाक्यन्तत्र शाब्दबोधो न स्यात् । किञ्च कालिकसम्बन्धावच्छिन्नप्रमेयत्वविशिष्टवत्परेण स्वरूपेण प्रमेयत्वविशिष्टवत्परेण तच्छब्देन घटितं "स स" इतिवाक्यन्तत्र शाब्दबोधो न स्यात् उद्दे. श्यविधेयभावावच्छेदकतावच्छेदकगतरूपस्य तदवच्छिन्नस्य च भेदाऽभावादप्रसिद्धेश्चेति
चेन्न १ कालिकसम्बन्धावच्छिन्नघटत्वादिगतरूपभेदस्य समवायघटत्वगतरूपे सम्भघोऽस्त्येव धर्मसंसर्गसाधारणोद्देश्यविधेयभावावच्छेदकत्वतदवच्छेदकत्वादोनां या पर्याप्तिस्तस्या एव विवक्षणात् ।
नम्वेवमपि कालिकसम्बन्धेन घटत्वविशिष्टत्वे सति समवायेन द्रव्यत्वविशिष्टपरेण, समवायेन घटत्वविशिष्टत्वे सति कालिकसम्बन्धेन द्रव्यत्वविशिष्टपरेण च तच्छन्देन पटितं यत् “स स" इतिवाक्यन्तस्मान्छान्दबोधाऽनुपपत्तिरिति चेन्न ? अत्र विशेष्यतावसम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति प्रकारताविशिष्टभिन्न कारणमितिपरिकल्पनात् । वैशिष्टयश्च स्वनिरूपितत्व स्वनिरूपितावच्छेदकतात्वव्यापकत्वोभयसम्बन्धेन । अन व्यापकता च स्वनिरूपितावच्छेदकताविशिष्टत्वसम्बन्धेन । अरच्छेदकतावैशिष्ट्यश्च स्वसामानाधिकरण्य स्वावच्छेदकसम्बन्धावच्छिन्नव स्वानच्छेदकाऽनवच्छिन्नत्व तत्सम्बन्धावच्छिन्नस्ववृत्तित्वैतचतुष्टयसम्बन्धेन ! तयाचोद्देश्यविधेययोरक्येऽपि विधे. यांशेऽधिकावगाहेऽपि न विवाद इति गूढतत्त्वं विस्पष्टमाहुः ।।
वस्तुतस्त्वयमभिप्रायः अभेदसं सर्गावच्छिन्ना या तद्धर्मवृत्तिः प्रकारता ताशप्रका. रतानिरूपितविशेष्यतावच्छेदकतावावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शान्दबुद्धित्वावच्छिन्नम्प्रति तद्धर्मभेदः कारणमित्येव कार्यकारणभावः । तद्धमें वृत्तित्वच प्रकारतायाः केन सम्बन्धेन १ स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन । अत्र स्वपदेनाऽभेदसम्बन्धावच्छिन्नप्रकारता ग. ह्यते, घटे या स्वरूपसम्बन्धेनाभेदसम्बन्धावच्छिन्ना प्रकारता सैव स्वरूपसम्बन्धेन घट. त्वगतैकत्वेऽपीति घटो घट इत्यत्र घटप्रकारकघटविशेष्यकबोध एवापत्तिविषयस्तत्र विशेष्यतावच्छेदकत्वं घटत्वे विशेष्यतावच्छेदकतायाञ्च पर्याप्तिसम्बन्धावच्छिन्ना प्रतियोगिताऽस्त्येव, विशेष्यतावच्छेदकतायां विशेष्यतात्वमप्यस्त्येवातः प्रतियोगिता वि. शेषतावन्छेदकतावावच्छिन्ना भवत्येव, एवञ्च विशेष्यताव छेदकतात्वावच्छिन्न