________________
१३०
व्युत्पत्तिवादः घटो नोलघट इत्याद्यन्वयबोधस्य प्रामाणिकत्वेऽन्यत्र दर्शितरीत्या सोऽप्युपपादनीयः। स स इत्यादिवाक्याजातित्वाधवच्छिन्नधर्मितावच्छेदकताकतद्धर्मावच्छिन्नप्रकारतावच्छेदकताकाभेदान्वयबोधस्थ वारपाय तद्धर्मावच्छिन्नावच्छेदकताकप्रकारतानिरूपितधर्मितावच्छेदकतावच्छेदकत्वप्रत्यासत्या शाब्दबोधं प्रति तद्धर्मभेदस्यापि पृथकारणत्वं कल्पनोयम् ।
धर्मप र्यासावच्छेदकताकाऽभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति तद्धर्मभेदःकारणम् । प्रकारतावच्छेदकता विशेष्यतावच्छेदकता च यत्रैकधमें पर्याप्ता तत्रैवाभेदान्वयबोधे तद्धर्मभेदस्य कारणत्वम् । यथा द्रव्यं घट इत्यत्र प्रकारतावच्छेदकतैकस्मिन्नेव घटत्वे धर्मे विशेष्यतावच्छेदकतापि एकस्मिन्नेव द्रव्यत्वारब्धधमें इति । परन्तु नीलघटी घट इत्यत्र तु प्रकारतावच्छेदकता नीलस्वघटत्वेतदुभयधर्मपर्याप्सा विशेष्यतावच्छेदकता तु केवलघटत्त्वधर्मे पर्याप्तेति विशेष्यतावच्छेदकीभूतघटत्वप्रकारतावच्छेदकीभूतनीलघटत्वयोरधिकावगाहिशाब्दबोधस्वीकृतिपक्षे भेदाऽभावेऽपि अमेदान्वयो निर्बाध एव । तत्र तद्धर्मभेदस्य हेतुत्वाऽस्वीकारदित्यप्यभिप्रायस्तमेवाह दर्शितरीत्येति ।
अस्यायमाशयः, निरवच्छिन्ना या घटत्वनिष्ठाऽवच्छेदकता तद्भिना याऽवच्छेदकता वनिरूपितत्वाऽभाववत्यकारताकशान्दबुद्धित्वावच्छिन्नम्प्रत्येव हि घटस्यभेदस्य कारणास्वीकारेण नीलघटस्वावच्छिन्नप्रकारताकशान्दबोधस्य ताशकारमानाक्रान्तत्वेन क्षति विरहादिति मुद्रमा दर्शिवरीत्येत्यस्य निरुक्तप्रकारेण पर्माप्तिविवक्षति तात्पर्यम् ।
न चैवं स्वीकारेऽपि तात्पर्य नीलवघटत्वोभमधर्मावच्छिन्नप्रकारतानिरूपितविशेन्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धौ नीलत्वमेदघटस्वमेदयोःकारणत्वेन नीलपटो नीलघट इत्याकारकशाब्दबोधाऽपत्तिः नीलल्बभेदघटत्वभेदयोः कास्पात्लेन विधेयांशेऽ. घिकावगाहिनीलघटो घट इतिशाब्दबोधस्याऽनुपपत्तिश्चेति वाच्यम् १ तद्रूपवृत्तिप्रकास्तानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्तयनुयोगितावच्छेदकतासम्बन्धेन शान्दबुद्धित्वावग्छिन्नम्प्रति तद्रूपभेदः कारणमिति तात्पर्याऽभिप्रायवर्णनात् ।
अन्न मान्याः, जातिमान् जातिमान् जातिमद्घटो जातिमान् जातिमान् जातिमद् घट इत्याद्यनुपपत्तिवारणाय घटत्वगतैकत्ववृत्तिप्रकारतानिरूपितविशेष्यतावच्छेदकतावा वच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति घटत्वनिष्ठनिरवच्छिन्नावश्छेदकताकप्रकारताविशिष्ट भिन्नत्वं कारणम् । वैशिष्टयञ्च प्रकारताया भेदे स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन। एवश्व घटो घट इत्यादौ वारणम् । विधेयांशेऽधिकावगाहिनीलघटो घट इत्यादीनां सिद्धिश्च ।