________________
शास्त्रार्थकलोपस्कृतः
१२९ न याति नच तत्राऽसीदस्ति पश्चान्नाशवत् ।
जहाति पूर्वनाऽधारमहो व्यसनसन्ततिः । इति । नच चक्रभ्रमणक्देकव्यक्तौ विद्यमाना जातिव्यंक्तयन्तरेऽपि गच्छेदिति वाच्यम् । सा जातिये॒कस्याम्ब्यक्ती सर्वाक्यवावच्छेदेन वर्तते चेत्तर्हि व्यक्यन्तरेषु तदुपलब्ध्यभावाऽपत्तेः । नोका सती युगपदनेकत्र सर्वावयवावच्छेदेन वर्तितुं शक्नोतीति व्यासेश्च । ___ नच जातिस्सावयवा व्यक्ती गच्छतीति वाच्यम्' जातेस्सर्वथा निरवयवत्वात्कथकारमनेकविधासु अतीताऽनागतवर्तमानासु व्यक्ति ववयवतो वृत्तिस्सम्भाव्यते । व्यक्ती च वर्तमानेह प्रत्ययमनुभवेत् । नचाऽपीह गोत्वमिति कस्यचिदपि पुरुषस्य प्रतीतिरनुगुणेति । तथाच जातिव्यक्त्योरभेदे सर्वबाधाऽभाव इति निश्चितस्सिद्धान्तःकेषाश्चित् । परन्तु जातिर्व्यक्तिभिन्नैव पदार्थःव्यक्तिद्वारा जातिलाभश्च यथा रसालजम्बीरादिफलनिष्ठमाधुर्य्यगुणस्य रसालादिद्वारैव लाभस्तद्वत् । नहि लोके माधुभ्यं स्वातन्त्र्येणोपलभ्यते, तथैव जातेस्वातन्त्र्येणोपलब्धिविषयत्वाऽभावाद् व्यक्तिद्वारैव बातेव्यक्तौ समुपलब्धिः । नच गुणगुणिनोरमेद इति वाच्यम् । यथा रसालादीनां चाक्षुषप्रत्यक्ष वन्तथा तद्गतमाधुर्यादेरपि चाक्षुषत्वापत्तेः रसालमाधुर्य्ययोर्गुणगुणिनो. रभेदात् । ....
. ... . . .
. . . . . एवञ्च तद्गतधर्मस्य तद्वारेणैवोपलब्धिरेवम् प्रकारेण गुणगुणिनो क्रियाक्रियावतोबातिव्यक्त्योच भेद एव सम्बन्ध इति घटस्य रूपम् चैत्रस्य ज्ञानम् चैत्रस्य क्रियेतिसिद्धान्तवाक्यप्रयोगवत् अभेदप्रत्ययाद् घटत्वं घटांघठो रूपम् शानं चैत्रःक्रिया चैत्रः इत्यादिप्रयोगाणां सम्प्रदायविरुद्धस्वात् । तथाच जातेरमूर्त्तत्वात् विभुत्वाञ्च न सा गछति नायातीति नोत्पद्यत इत्यपि। जात्यभिव्यञ्जकत्वम्ब्यक्त संस्थानस्य च। तथाचोत्पन्नघटे घटत्त्वं ज्ञायत इति सिद्धान्तमार्गः । अत एव "आकृतिग्रहणा जातिः इति पातलं सङ्गच्छते। तत्राकृतिग्रहणेत्यस्याकृतिज्ञानजन्यज्ञानविषयेत्यर्थः । अथवा कस्यचिदपदेशादेकघटविषयके ज्ञाने जातेऽपि घटान्तरविषयकज्ञानमुपदेशान्तरमन्तरेण न भवेदिति व्यवहारलोपप्रसक्तेश्च घटस्वन्तत्रावश्यमुपेयम् । सामान्यलक्षणप्रत्त्यासत्त्या प्रथमघटज्ञानानन्तरं सकलघटज्ञानमुत्पद्यतेऽत एव व्यवहारसिद्धिः। अथ च विषययानुगमम्विना प्रतीतेरनुगतत्वसम्भवो नास्तीति व्याप्तिः । अयं घट इतिप्रत्ययानामनुग. ताकारत्वं विषयानुगतत्वमन्तरेण नैवास्ति। अनुगतो विषयश्च घटत्वमेव । तथाच जातिव्यक्त्योर्गुणगुणिनोः क्रियाक्रियावतोश्च सर्वथैव भिन्नत्वन्नाऽभेदस्संसर्ग इति तत्त्वमूचुः ।
वस्तुतस्तु घटत्वावच्छिन्नाऽभेदसंसर्गावछिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकता सम्बन्धेन घटत्वे शाब्दबोधस्तत्र घटत्वमेदाऽभावात्कार्यकारणभावे व्यभिचारस्स्यादतस्त९ व्यु०