________________
१२८
व्युत्पत्तिवादः अत्रैव प्रसङ्गाज्जातिलक्षणं विचार्यते ।
नित्यत्वे सत्यनेकसमवेतत्वजातित्वमितिप्रसिद्धलक्षणन्तु न युक्ततरं ? विमुद्वयसंयोगस्वीकारे संयोगपदायेंऽतिव्याप्त्यापत्तेः। किञ्च नित्यत्वन्नाम प्रागभावाऽप्रतियोगित्त्वे सति ध्वंसाऽप्रतियोगित्वम् उत्पादविनाशशून्यत्वं वा । तथा च नित्यत्वस्य गुरुशरीरत्वेन प्रचण्डगौरवाच । ___ एवञ्च समवेतरहितसर्वाऽन्योऽन्याभावसमानाधिकरणसमवेतं सामान्यजातिरिति फलति लक्षणम् । अभावे समवाये च दोषनिरासाय समवेतेति पदम् । संयोगे द्वित्त्वादौ च दोषवारणाय रहितान्तं समवेतविशेषणम् । विशेषपदार्थे दोषवारणाय सर्वेति विशेषणम् । सर्वान्योऽन्याऽभावसामानाधिकरण्यश्च उभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदव्यापकत्त्वम् । व्यापकत्वञ्च सामानाधिकरण्यसम्बन्धेन बोध्यम् । । अथार्च विलक्षणाः। । ननु जातिव्यक्त्योस्समवाय एव संसर्गः परन्तु भेदाऽभेदयोविरुद्धत्त्वेन सैव ततो. ऽन्याऽनन्या च नैव सम्भवति । अत एवोक्तम् ।।
पृथवे व्यक्तितो जातिहश्यते पृथगेव सा ।
अभेदे व्यकिमानं स्याद् द्विधा चेन्न विरोधतः ॥ इति । तथाच जातिव्यक्योरभेद एव नतु भेद इति सिद्धान्तः ।। नच यदि जातिपदार्थाऽपेक्षया व्यक्तिपदार्थो भिन्नस्तदा कापत्तिर्मातेस्सर्वत्र सत्त्वाद् व्यक्तस्त्वेकत्रैव सत्त्वमिति प्रत्यक्षव्याप्तेरिति वाच्यम् ? जातेस्सर्वत्र सत्त्वानुपलब्धेः। नच केवलव्यक्ती तत्सत्तेति वाच्यम् १ केवलव्यक्तौ जातिसत्तायामुत्पन्नायां व्यक्तौ तद्देशावच्छेदेन प्रागसती जातिव्यक्ती कथङ्कारमुपलभ्या भवेत् इत्यभिप्रायात् । नच व्यक्तौ जातिरुत्पद्यत इति वाच्यम् , नित्यत्वविशेषणविशिष्टायाः जातेरुत्पत्त्ययोगात् । नच व्यक्त्यन्तराद् व्यक्त्यन्तरे जातिरागच्छति तथाच जातिसत्तायान्न हानिरिति वाच्यम् १ जातेरमूर्त्तत्वेन तदागमनाऽसम्भवात् । नच जातेरपि मूर्तत्वेन न बाधेति वाच्यम् १ व्यक्त्यन्तरे तदुपलब्ध्यभावापसेः । नच अंशांशिभावेन व्यक्तौ जातिसम्बन्ध इति वाच्यम् ? जातेनिरंशत्त्वात् । नच जातेरंशवतीत्वे का बाधेति वाच्यम् ? व्यक्तिनाग्रे सति तदंशात्मकबातेरपि विशेषानुपलध्या जातिरपि विनंयतीतिदोषाता। नच जातिरन्यत्रापि यातीति वाच्यम् ? अमूतत्वेन जातेगमनाऽसम्भवात् इति पूर्वोक्तः। नच व्यस्त्यन्तरे पूर्वमेव आतिरवस्थितेति न काचित्धतिरिति वाच्यम् ? जातेःपुनःप्रवेशे द्विगुणाया जातेस्पलब्ध्यापत्तेः तदेव शिष्टैरकम् पद्यम् ।
उभयावृत्तिस्वम्-भेदविशिष्टान्यस्वम् । वैशिष्ठपञ्च स्वप्रतियोगिवृत्तिरवस्वसामानाधिकरण्योभयसम्बन्धेन ।