________________
शास्त्रार्थकलोपस्कृतः
१२७
यत्तिप्रदर्शनं सयुक्तिकं सङ्गच्छत इति शुक्लाः ।
ननु यद्यभेदसंसर्गकशाब्दबोधम्प्रति प्रकारतावच्छेदकविशेष्यतावच्छेदकधर्मभेदः कारणमित्युच्यते चेत्तर्हि यः खल्वत्र जातिमानस्ति स घट आनेतव्यो भवद्भिरितिमहावाक्यघटकेस घट इति वाक्ये घटस्स इतिवाक्ये च विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मंयोर्भेदाऽभावेनाऽभेदान्वयबोध इष्टोऽपि न स्यात्तथाहि, जात्यवच्छिन्ने तत्पदशक्त्या तत्पदेन जातिमानेव गृह्यते जातिमान् पदार्थ एवोद्देश्यस्तस्यैव विशेध्यत्वं घटपदार्थश्च प्रकारः प्रकारतावच्छेदकधर्मश्च घटत्वमेव तत्पदवाच्यजातिमद्विशेष्यपदार्थे विशेष्यतावच्छेदकधर्मस्तु जातिरेव नान्यस्तथाच जातौ घटत्वभेदो नास्त्येव, जातेस्तु घटत्वादिरूपत्वं सार्वत्रिकं, घटत्वस्य घटत्वत्वेन भानन्तु भवत्येव नहि ? जात्यखण्डोपाध्यतिरिक्तपदार्थस्यैव किञ्चिद्धर्मप्रकारेण भानमिति नियमादत्र घटत्वस्य जातित्वेनैव प्रतीतिः तत्पदस्य नातिमत्येव शक्तत्वाद्विशेष्यतावच्छेदकजातिघटत्वपदार्थयोर्भेदाऽभावेनाऽभेदान्वयबोधो न स्यात् । एवं घटस्स इतिवाक्ये घटत्वजात्यो - भैदाऽभावेनाभेदान्वयबोघो न स्यादित्याशयेनाह स घट इति । कार्यतावच्छेदक दले विशेष्यतावच्छेदकता प्रकारतावच्छेदकता च निरवच्छिन्नत्व विशेषणविशिष्टा ग्राह्येति तत्त्वम् ।
तथाचार्य कार्यकारणभावः तद्धर्मनिष्ठनिरवच्छिन्नावच्छेदकताकाऽभेदसंसर्गावच्छि नप्रकारतानिरूपित विशेष्यता निरवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति तद्धर्मभेदः कारणम् । अर्थात् निरवच्छिन्नावच्छेदकताक विशेष्यताकम् ( निरवच्छिन्नविशेष्यतावच्छेदकताकम्, निरवच्छिन्नावच्छेदकताक विशेष्यताकम् निरवच्छिन्नप्रकारतावच्छेदकताकम् ) च शाब्दबोधम्प्रति तद्धर्मभेदस्य कारणत्वमिति 'फलितम् | द्रव्यं घट इत्यत्र द्रव्यत्वस्य जातित्वेन स्वरूपतो भासमानत्वाद् द्रव्यत्वनिष्ठा या विशेष्यतावच्छेदकता सा निरवच्छिन्नैव घटत्वनिष्ठा या प्रकारतावच्छेदकता साऽपि घटत्वस्य जातित्वेन स्वरूपतो भासमानत्वान्निरवच्छिन्नैवेति । तादृशशाब्दबोधस्प्रति द्रव्यत्वघटत्वधर्म योर्भेदः परन्तु पूर्वोक्तजातिमान् घट इत्यत्र विशेष्यो जातिमानेव विशेष्यतावच्छेदकता च जातावस्ति जातेश्च जातित्वावच्छिन्नत्वेन सावच्छिन्नत्वमेव । तथाच कार्यकारणभावस्यात्राऽप्रवृत्त्याऽत्र तद्धर्मभेदाऽभावेऽपि शाब्दबोधस्याभेदसंसर्गकस्य निर्विवादत्वात् । द्रव्यं घट इतिवत् विशेष्यतावच्छेदकं घटत्वं प्रकारतावच्छेदकञ्च नीलघटत्वमिति द्वयोर्भेदा छाब्दबोधः |
नवीनमते तु विधेयांशेऽर्थात् विशेषणकोटौ घटापेक्षया नीलस्याऽपि प्रवेशान्नीलघटत्वावच्छिन्नप्रकारता निरूपिताऽभेदसंसर्गावच्छिन्ने तिशाब्दबोधप्रतीतेर्घटत्वं विशेष्यतावच्छेदकन्नीलघटत्वम्प्रकारतावच्छेदकमिति तयोर्भेदान्न शाब्दबोधानुपपत्तिः ।
निरवच्छिन्नस्वच - अवच्छेदकतानिरूपितत्वाभाववश्वम् ।
सावच्छिन्नत्वच --- सम्बन्धातिरिक्तयत् किञ्चिनिष्ठावच्छेदकता निरूपितस्त्वम् ।
"