________________
१२६
व्युत्पत्तिवादः __ चेत्तर्हि तद्धर्मावच्छिन्नाभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदस्यापि हेतुतायाः स्वीकरणोयतया न घटो घट इत्यादिस्थले शाब्दबोधापत्तिः। स घट इत्यादिवाक्याजातिवादिना घटत्वादिधर्मितावच्छेदककस्य घटः स इत्यादिवाक्यात्स्वरूपतो घटत्वाविधर्मितावच्छेदककस्य जातित्वादिविशिष्टघटस्वावच्छिन्नप्रकारताकस्य शाब्दबोधस्योपपत्तये विशेष्यत्वप्रकारत्त्वयोरवच्छेदकत्वे निरवच्छिन्नत्वेन विशेषणीये।। संसर्गकघटत्वावच्छिन्नप्रकारकधटत्वावच्छिन्नविशेष्यकशाब्दबोधस्स्यादेवेति प्रश्नकत्तराशयः। समाधत्तेतीति।
तद्धर्मावच्छिन्नाऽभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति तद्धर्मभेदस्य (प्रकारतावच्छेदकधर्ममेदस्य) करणत्वम् । अत्र तद्धर्मपदेन प्रकारतावच्छेदकघटत्वादिधर्मस्य ग्रहणम् । यत्र हि प्रकारतावच्छेदकविशेष्यतावच्छेदकधर्मयोर्भेदोऽस्ति तत्रैवाऽभेदान्वयो यथा द्रव्यं घटः नीलो घटः । विशेष्यतावच्छेदकन्द्रव्यत्वम्प्रकारतावच्छेदकं घटत्वम्भिन्नम् विशेष्यतावच्छेदकं प्रकारतावच्छेदकं भिन्न नीलत्वमित्युभयत्राऽभेदान्वयः ।
प्रकृते घटो घट इत्यत्र घटत्वमेव विशेष्यतावच्छेदकं घटत्वमेव हि प्रकारतावच्छेदकमितिविशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयोर्भेदाऽभावान्नाऽभेदान्वयाऽपत्तिरिति तात्पर्य्यम् । वस्तुतस्तु
द्रव्यं घटः घटी घट इतिष्टान्तदान्तिकयोर्मद्वैषम्यम् । तथाहि, द्रव्यं घटः इत्यत्र घटमुद्दिश्य द्रव्य त्वविधानं सार्वजननीनन्नतु द्रव्यमुद्दिश्य घटत्वविधानम् । एवञ्च घटे उद्देश्यतासम्बन्ध उद्देश्यता च विशेष्यताऽपरपर्याया प्रसिद्धव, द्रव्यत्वे च विधेयतासम्बन्धी विधेयता च प्रकारताऽपरपर्याया प्रसिद्धव । एवञ्च द्रव्यं घट इत्यत्र घटविशेष्यकद्रव्यप्रकारक एव शाब्दबोधस्तथाच द्रव्यं घट इतिदृष्टान्तेन घटो घट इत्यत्र घटप्रकारकशाब्दबोधापत्तिः कथमिति विवेचयन्तु धीधनाः। केचित्त
उद्देश्यतायां विशेष्यत्वे विधेयतायाम्प्रकारत्वे पर्वते वह्निरित्यत्र शाब्दबोधप्रलयो वहावेव विधेयत्वम्प्रथमान्तार्थमुख्यविशेष्यकबोधश्च तोऽभिमतः कथञ्च वह्नौ विशेध्यत्वमिष्टमभिरक्षितं स्यात् । किञ्च सर्वेषु घटेषु रूपमित्यत्राऽपि शक्तिवादे सर्वशब्दार्थविचाराऽवसरे रूपस्यैव विधेयत्वम्विशेष्यत्वञ्च कथङ्कारं सिद्ध्येदेवश्च कचित्प्रकारतायामुद्देश्यतासम्बन्धः कचिद्विशेष्यतायां विधेयतासम्बन्धस्तत्तद्वाक्यार्थानुरोधात । तथाच द्रव्यं घट इत्यत्र घटमिष्ठा या उद्देश्यता तत्रप्रकारतासम्बन्धप्रबन्धानुरोधेना