________________
शास्त्राथफलोपस्कतः
१२५ न च पदार्थेऽपि प्रकारतासम्बन्धेन शाब्दबोधोत्पत्त्या तत्र प्रकारतासम्बन्धेन पदार्थोपस्थितेहेतुप्ता व्यभिचारेण कल्पयितुमशक्येति वा. च्यम् ? परामर्शकारणताविधारदर्शिदिशा व्यभिजारस्य वारणीयखादितिनन्तदा समवायसम्बन्धावच्छिन्नघटत्वप्रकारकशाब्दबोधवारणाय स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्याऽपि निवेश्यत्वात् । अस्मद्गुरवस्तु
केवलं स्वप्रयोज्यत्वमात्रम्वैशिष्टयनियामकम्बोध्यम् इत्याहुः ।
ननु द्रव्यं घट इत्यत्र द्रव्यम्बिशेष्यं घटश्च प्रकार इति द्रव्ये विशेष्यतासम्बन्धेन द्रव्यत्वे च विशेष्यतावच्छेदकतासम्बन्वेन शाब्दबोधो भवति तथा पदार्थे घटेऽपि प्रकारतासम्बन्धेन शाब्दबोध इष्यत एव । परन्तु तादृशोक्तप्रकारतासम्बन्धेनोपस्थितिस्तु नास्त्येव घटपदजन्यघटोपस्थितौ घटपदार्थस्य विशेष्यतयैव भानन्नत प्रकारतयेति घटे घटपदजन्योपस्थितीयप्रकारतैव नास्तीति प्रकारतासम्बन्धेन कथं घटे उपस्थितिस्स्यादित्याशङ्कयाह नच पदार्थेऽपीति । परामशकारणताविचारदर्शितदिशेति ।
परामर्शकारणतायां यो विचारस्ता दर्शिता या दिक् तया तद्रीत्या ब्यभिचारो वारणीय इत्यभिप्रायः । पर्वतो वह्निमानित्यादौ वह्नयनुमितित्वावच्छिन्नम्प्रति धूमपरामर्शस्य कारणत्वम् । आलोकपरामर्शस्याऽपि कारणत्वम् । धूमपरामर्शाऽलोकपरामर्शयोः परस्परजन्यबोधे व्यभिचारस्तद्वारणाय धूमपरामर्शाव्यवहितोत्तरत्वविशिष्टानुमितित्वावच्छिानम्प्रति धूमपरामर्शशानं कारणम् । एवमालोकपरामर्शाव्यवहितोत्तरत्वविशिष्टानुमितित्वावच्छिन्नम्प्रति आलोकपरामर्शयानं कारणम् इति मुद्रया कार्यतावच्छेदककोटी कारणाव्यवहितोत्तरत्वनिवेशेन यथा व्यभिचारो निवारितस्तथैव स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनोपस्थित्यव्यवहितोत्तरत्व विशिष्टयान्दवीधम्प्रति स्वजनकशानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्ट प्रकार तासम्बन्धेनोपस्थितिः कारणम्। यथा द्रव्यं घट इत्यत्र द्रव्यत्वे ।।
घटे जायमानशाब्दबोधम्प्रति तु निरक्तप्रकारतासम्बन्धेनोपस्थितेः कारणत्वमेव नास्ति यतो घटेऽसत्वाद् व्यभिचारित्वं स्यात् । तथाच घटे यादृशप्रकारतासम्बन्धेनोपस्थित्यव्यवहितोत्तरं शाब्दबोधो निष्पद्यते ताराप्रकारतासम्बन्धेनवोपस्थितेः कारणत्वमिति व्यभिचाराऽभावः। एवच विषयतासम्बन्धेन कार्यकारणभावे दोषाभावेन योग्यताशाने द्रव्यत्वावच्छिन्नधर्मिकत्यप्रवेशापेक्षाऽमावेन द्रव्यं घट इत्यत्रामेदसंसर्गकघटस्वावच्छिन्नप्रकारकयोग्यताशानं पाहशं शाब्दबोधजनयति तारा. स्यैव योग्यताशानस्य घटो, घट इत्यत्राऽपि सत्त्वात्कारणसत्वे कार्यावश्यम्भावनाभेद