SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ शास्त्रार्थकलोपस्कृतः। त्यासत्या प्रत्ययजन्योपस्थितिःकारणमितिकार्यकारणभावकल्पनाद्राजा पुरुष इत्यत्र राजप्रकारकपुरुषविशेष्यकभेदान्वयवारणात् । नामार्थयोस्साक्षाद् भेदेनान्वयो न भवति नामार्थप्रकारकनामार्थविशेष्यकभेदान्वयो न भवतीति सिद्धान्तधारा । राज्ञःपुरुष इत्यादौ तु नामार्थपुरुषेण राजपदार्थस्य न साक्षादन्वयोऽपि तु राजपदार्थस्य निरूपितत्वसम्बन्धेन स्वत्वषष्ठयर्थऽन्वयः, स्वत्वस्य चाश्रयत्वसम्बन्धेन विशेष्यभूतपुरुषेऽन्वयः । तथाच निरूपितत्वसम्बन्धावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपिताश्रयत्वसम्बन्धा. वच्छिन्नस्वत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकश्शाब्दबोधः । किञ्च निरूपितत्वसम्बन्धावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपितस्वत्वनिष्ठविशेष्यतासमानाधिकरणप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकश्शाब्दबोध इति । अथवा निरूपितत्वसम्बन्धावच्छिन्ना राजत्वावच्छिन्ना राजनिष्ठा या प्रकारता ताहशप्रकारतानिरूपिता या स्वत्वत्वावच्छिन्ना स्वत्वनिष्ठा विशेष्यता तादृशविशेष्यत्वाऽभिन्ना या आश्रयत्वसम्बन्धावच्छिन्ना स्वत्वत्वावच्छिन्ना स्वत्वनिष्ठा प्रकारता ताहशप्रकारतानिरूपिता या पुरुषत्वावच्छिन्ना पुरुषनिष्ठा विशेष्यता तादृशविशेष्यताकशाब्दबोधः । किञ्च निरूपितत्वसम्बन्धावच्छिन्ना राजत्वनिष्ठा या निरवच्छिन्नाऽवच्छेदकता तादृशावच्छेदकतानिरूपितावच्छेद्यतावती या स्वरूपसम्बन्धावच्छिन्ना रा. ननिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या स्वत्वनिष्ठासावच्छिन्नावच्छेदकतानिरू. पितावच्छेद्यतावती स्वरूपसम्बन्धावच्छिन्ना स्वत्वत्वावच्छिन्ना स्वत्वनिष्ठा विशेष्यता ताहशविशेष्यतासमानाधिकरणा तादृशविशेष्यत्वावच्छिन्ना ताहशविशेष्यत्वाsभिन्ना वा या स्वत्वनिष्ठाभयत्वसम्बन्धावच्छिन्ना प्रकारता तादृशप्रकारतानिरूपिता या पुरुषत्वनिष्ठा सावच्छिनाऽवच्छेदकता ताशावच्छेदकतानिरूपिता या स्वरूपसम्बन्धावच्छिन्नावच्छेद्यता तादृशावच्छेद्यतावती या पुरुषनिष्ठा विशेष्यता ताहशविशेष्यताकाशाब्द इति । किञ्च "जात्याकृतिव्यक्तयः पदार्थ" इतिसूत्रानुरोधेन राजराजत्वसमवायानाम्पुरुषपुरुषत्वसमवायानां स्वत्वस्य चोपस्थित्या ससपदार्थास्सम्भाव्यन्ते १ तत्र शाब्दबोधप्रकारश्चेत्थम् , समवायत्वनिष्ठावच्छेदकतानिरूपिता या समवायनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती समवायनिष्ठसंसर्गता तन्निरूपिता समवायसम्बन्धावच्छिन्न. पुंस्त्वत्त्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती या स्वरूपसम्बन्धावच्छिन्ना पुंस्त्वनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता च या समवायसम्बन्धावच्छिन्ना राजत्वनिष्ठा निरवच्छिन्नावच्छेदकता ताशावच्छेदकतानिरूपितावच्छेद्यतावती या राजत्वनिष्ठाप्रकारता तादृशप्रकारतानिरूपिता या राजनिष्ठा विशेष्यता ताहशविशेष्यत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती या निरूपितत्वसम्मन्धावच्छिन्ना राजत्वावच्छिन्ना राजनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या प्रत्ययार्थस्वत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती स्वरूपसम्बन्धावच्छिन्ना स्वत्वनिष्ठा विशेष्यता तादृशविशेष्य १० व्यु०
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy