Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 246
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्यमानि, उत्कृष्टं यत् प्रायश्चित्तं तत् स्थापनारोपण प्रकारेणैव दीयते, इति तत् प्रतिपादनार्थमिदमाह ।। ठवणा संचयरासी, माणाइपभूयकित्तिया सिद्धा॥दिठा निसीह नामे सव्वेवि तहा अणायारा॥१६८।। ___ स्थाप्यते इति स्थापना वक्ष्यमाणेनारोपणाप्रकारेण शुद्धी भूतेभ्यः संचयमासेभ्यो ये शेषा मासास्तेषां प्रतिनियतदिवसपरिमाणतया व्यवस्थापन, स्थापनाग्रहणेन भारोपणापि गृहीता द्रष्टव्या ॥ परस्परमनयोः संबंधात , तत्रारोप्यते इत्यारोपणा, वक्ष्यमाणेन गणितप्रकारेण संचयमासानां षट्सु मासेषु समविषमतया प्रतिनियतदिवसग्रहणतो व्यवस्थापन; ताभ्यां स्थापनारोपणाभ्यां संचयनं-संकलनं संचयः, किमुक्तं भवति ? पक्षां मासानामुपरि प्रतिसेवनायां कृतायां कुतोपि मासात् पंचदश रात्रिंदिवसानि कृतोपि दश कुतोपि पंच गृहीत्वा स्थापनारोपणाविधानेन षण्मासपूरणं संचयः ॥ तथा रासित्ति एष प्रायश्चितराशिः, कुत उत्पद्यते ? इति वक्तव्यं, तथामानानि प्रायश्चित्तस्य वक्तव्यानि, यथा प्रथम तीर्थकृतस्तीर्थे प्रायश्चित्तमानं संवत्सरः, मध्यमानामष्ट मासाः, चरमस्य षण्मासाः, तथा प्रभवः प्रायश्चित्तदाने स्वामिनः केवलिप्रभृतयो वक्तव्याः ॥ तथा कत्तियासिद्धाः इति कियंतः खलु प्रायश्चित्तभेदाः सिद्धा इति वक्तव्यंः, तथा एते सर्वेपि प्रायश्चित्तभेदा दृष्टा निशीथनाम्नि अध्ययने न केवलमेते, किंतु तथा सर्वेप्यनाचारा अतिचारा अतिक्रमादयो निशीथनाम्नि दृष्टाः, एष। द्वारगाथासंक्षेपार्थः॥ संप्रति प्रतिद्वारं व्यासार्थो भणनीयस्तत्र यान् प्रति स्थापनारोपणे क्रियेते तानुपदर्शयति ॥ बहपडिसेवी सोयो, वि अगीतो अविय अपरिणामोवि।अहवा अतिपरिणामो तप्पच्चय कारणे ठवणा॥१६९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330