________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्यमानि, उत्कृष्टं यत् प्रायश्चित्तं तत् स्थापनारोपण प्रकारेणैव दीयते, इति तत् प्रतिपादनार्थमिदमाह ।। ठवणा संचयरासी, माणाइपभूयकित्तिया सिद्धा॥दिठा निसीह नामे सव्वेवि तहा अणायारा॥१६८।। ___ स्थाप्यते इति स्थापना वक्ष्यमाणेनारोपणाप्रकारेण शुद्धी भूतेभ्यः संचयमासेभ्यो ये शेषा मासास्तेषां प्रतिनियतदिवसपरिमाणतया व्यवस्थापन, स्थापनाग्रहणेन भारोपणापि गृहीता द्रष्टव्या ॥ परस्परमनयोः संबंधात , तत्रारोप्यते इत्यारोपणा, वक्ष्यमाणेन गणितप्रकारेण संचयमासानां षट्सु मासेषु समविषमतया प्रतिनियतदिवसग्रहणतो व्यवस्थापन; ताभ्यां स्थापनारोपणाभ्यां संचयनं-संकलनं संचयः, किमुक्तं भवति ? पक्षां मासानामुपरि प्रतिसेवनायां कृतायां कुतोपि मासात् पंचदश रात्रिंदिवसानि कृतोपि दश कुतोपि पंच गृहीत्वा स्थापनारोपणाविधानेन षण्मासपूरणं संचयः ॥ तथा रासित्ति एष प्रायश्चितराशिः, कुत उत्पद्यते ? इति वक्तव्यं, तथामानानि प्रायश्चित्तस्य वक्तव्यानि, यथा प्रथम तीर्थकृतस्तीर्थे प्रायश्चित्तमानं संवत्सरः, मध्यमानामष्ट मासाः, चरमस्य षण्मासाः, तथा प्रभवः प्रायश्चित्तदाने स्वामिनः केवलिप्रभृतयो वक्तव्याः ॥ तथा कत्तियासिद्धाः इति कियंतः खलु प्रायश्चित्तभेदाः सिद्धा इति वक्तव्यंः, तथा एते सर्वेपि प्रायश्चित्तभेदा दृष्टा निशीथनाम्नि अध्ययने न केवलमेते, किंतु तथा सर्वेप्यनाचारा अतिचारा अतिक्रमादयो निशीथनाम्नि दृष्टाः, एष। द्वारगाथासंक्षेपार्थः॥
संप्रति प्रतिद्वारं व्यासार्थो भणनीयस्तत्र यान् प्रति स्थापनारोपणे क्रियेते तानुपदर्शयति ॥ बहपडिसेवी सोयो, वि अगीतो अविय अपरिणामोवि।अहवा अतिपरिणामो तप्पच्चय कारणे ठवणा॥१६९॥
For Private and Personal Use Only