________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिकाsनंतरः।
द्वितीयो विभागः।
॥१८॥
इह प्रायश्चित्तप्रतिपत्तारः पुरुषा इमे तद्यथा, गीतार्थोऽगीतार्थः परिणामकोऽपरिणामकोऽतिपरिणामकश्च, तत् यः प्रायश्चितप्रतिपत्ता बहूनां मासिकस्थानानां प्रतिसेवी एकस्मिन् हि मासिके स्थाने प्रतिसेविते प्रायो न स्थापनारोपणाविधिस्ततो बहुसेवीत्युक्तं सोपि च गीतोऽगीतार्थः ॥ गीतार्थे हि प्रायश्चित्तप्रतिपत्तरिच बहुष्वपि मासेषु प्रतिसेवितेषु न स्थापनारोपणे क्रियेते, तस्य गीतार्थतया ताभ्यां विनापि यदुक्तार्थग्राहित्वात् , ततोऽगीतार्थ इत्युक्तं, सोपि यदि परिणामको भवेत् , तर्हि तमपि प्रतिस्थापनारोपणे तस्यापि परिणामकतया ताम्यां विनापि यदुक्तार्थप्रतिपत्तेः, तत आह, अपिच अपरिणामोपि न विद्यते, परिणामो यदुक्तार्थपरिणमनं यस्य स, तथा प्रास्ताम गीतार्थः ।। किंत्वपरिणामकश्चेत्यपि शब्दार्थः,अथवा अतिपरिणामः अतिव्याप्त्या परिणामो यथोक्तस्वरूपो यस्यासावतिपरिणामस्तत्प्रत्ययकारणात् तयोरगातीर्थयोरपरिणामातिपरिणामयोः प्रत्ययो ज्ञानं यावंतो मासाः प्रतिसेवितास्तावंतः सर्वेपि सफलीकृता इत्येवंरूपं स्यादिति हेतोः स्थापनाग्रहणेनारोपणापि गृह्यते इति आरोपणापि क्रियते तद्यथा, यावंतो मासा दिवसा वा प्रतिसेविता स्तावंतः सर्वे एकत्र स्थाप्यंते, स्थापयित्वा च यत् संक्षेपार्ह विशिकादिकं प्रतिसेवितं तत् स्थाप्यते, एषा स्थापना; तदनंतरं येऽन्ये मासाः प्रतिसेवितास्ते सफली कर्त्तव्या इत्येकैकस्मात् मासात् प्रतिसेवनापरिणामानुरूपं स्तोकान् स्तोकतरान् समान विषमान् वा दिवसान् गृहीत्वा एकत्र रोपयति एषा आरोपणा, एषा चोक्तर्षतस्तावत् कर्त्तव्या, यावत्या स्थापनया सह संकलय्यमाना षण्मासाः पूर्यते नाधिकाः ॥ ततः स्थापनारोपणयो यदेकत्र संकलनमेष संचयः, अयं स्थापनारोपणासंचयानां परस्परप्रतिभक्तोऽर्थः, अनेन हि प्रकारेण प्रायश्चितदानेतिपरिणामकोऽपरिणामको वा चिंतयति, सर्वे मासाः सफलीकृता इति, शुद्धोहमिति; गीतार्थ परिणामकयोः पुन ने स्थापनारोपणा
For Private and Personal Use Only