________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारेण प्रायश्चित्तं दीयते, प्रयोजनाभावात् किंत्वेवमेव तथाचाह ॥ एगंमिणेगदाणे णेगेसु य एगदाणमेगेगं ॥जं दिजइ तं गिण्हइ गीयमगीतो य परिणामी ॥१७॥
यो गीतार्थो यश्चागीतार्थोपि परिणामी तसै एकस्मिन् मासे प्रतिसेविते रागद्वेषहर्षोत्तरोत्तरवृद्ध्या प्रतिसेवनात् यदि अनेक दानं, अनेके अनेकेषु मासेषु प्रतिसेवितेषु कारणे मंदाध्यवसाये वा प्रतिसेवनात् तीव्राध्यवसायतः प्रतिसेवनाद्वा पश्चाद् हा दुष्ठु मया कृतमित्यादि बहुनिंदनादेकदानमेको मासो दीयते, बहवो मासा दीयंते, अथवा एकमिन् मासे प्रतिसेविते एकदानमेकः-परिपूर्णो मासो दीयते, दुष्टाध्यवसायेन प्रतिसेवनात् , पश्चाच्च हर्परागद्वेषवृद्ध्यासंभवतोनेकमासदानायोगात् उपलक्षणमेतत् तेनैतदपि द्रष्टव्यं, बहुषु मासेषुसप्ताष्टादि संख्येषु प्रतिसेवितेषु यदि बहवो मासाः षद् पंच चत्वारो वा दीयंते, तथापि तत् सम्यग् गृहाति, श्रद्धत्ते च, शुद्धि प्राप्तोहमिति ततस्तयोन स्थापनारोपणाप्रकारेण प्रायश्चित्तदानमिति ॥ यदि पुनरपरिणामके तिपरिणामेक वा अगीतार्थे न स्थापनारोपणाप्रकारेणदीयते, तदा बहवो दोषा; तत्र अपरिणामके दोषं दर्शयति; बहएम एगदाणे, सो च्चिय सुद्धोन सेसया मासा,मा अपरिणामे उसंका, सफला मासा कया तेण ।१७१॥
बहुकेषु मासेषु प्रतिसेवितेषु यदा प्रागुक्तकारणवशात् एको मासःस्थापनारोपणान्यतिरेकेणापरिणामके दीयते, तदा | तस्मिन्त्रपरिणामिक एवमाशंका स्यात्, यथा यस्यैकमासस्य मे दत्तं प्रायश्चित्तं स एवैको मासः शुद्धो, न शेषा मासास्ततो।। नाद्याप्यहं शुद्ध इति, तस्मादेवं भूता आशंका मा भूदित्यपरिणामके स्थापनारोपणाप्रकारेण सर्वे मासाः सफलाः कृताः,
For Private and Personal Use Only