Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 329
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। भवति, तदान भारवहनक्षम, नापि मार्गे वर्त्तते, उत्तरांगैस्तु कैश्चिद्विनापि शकटं कियत्काल भारक्षम भवति, प्रबहति च | द्वितीयो मार्गे कालेन पुनर्गच्छताऽन्यान्यपि परिशटनादयोग्यमेव तदुपजायते, एवमिहापि मूलगुणानामेकस्मिन्नपि मूलगुणे हते न विभागः। साधुनामष्टादशशीलांगसहस्रभारवहनक्षमता, नापि संयमश्रेणिपथे प्रवहनं. उत्तरगुणैस्तु कैश्चित् प्रतिसेवितैरपि भवति कियंत कालं चरणभारवहनक्षमता, गंयमणिपथे प्रवर्त्तनं च, कालेन पुनर्गच्छता तत्राप्यन्यान्यगुणप्रतिसेवनातो भवति समस्तचारित्रभ्रंशस्ततः शकटदृष्टांतादुपपद्यते, मूलगुणानां एकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंश, उत्तरगुणनाशे कालक्रमे ऐति, इतश्चैतदेवं मंडपसर्पपादिद्रष्टांतात , तथा रंडादि मंडपे यद्यको द्वौ बहवो वा सर्षपा, उपलक्षमेतत् तिलतंदुलादयो वा | प्रक्षिप्यते, तथापि न स मंडपो भंगमापद्यते, अतिप्रभूतैः आढकादिसंख्याकैर्भज्यते, अथ तत्र महती शिला प्रक्षिप्यते, तदा | तयैकयापि तत्क्षणादेव ध्वंसमुपयाति, एवं चारित्रमंडपोप्येकाच्यादिभिः उत्तरगुणरतिचर्यमाणैन भंगमुपयाति, बहुभिस्तु कालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारेण तत्कालं भ्रंशमुपगच्छतीति, तदेवं यस्मात्मलगुणातिचरणे क्षिप्रमुत्तरगुणातिचरणे कालेन चारित्रभ्रशो भवति, तस्मान्मे मूलगुणा उत्तरगुणाश्च निरतिचाराः स्युरिति षद्कायरक्षणार्थ सम्यक् प्रतिपत्तव्यं, पद्कायरक्षणे हि मूलगुणा उत्तरगुणाश्च शुद्धा भवंति तेषु च द्वयेष्वपि शुद्धषु, अत्र गाथायामेकवचनं प्राकृतत्वात् , प्राकृते हि वचनव्यत्ययोपि भवतीति, चरणशुद्धिश्चारित्रशुद्धिः, अत्र शिष्य प्राह, ये प्राणातिपातादिनिवृत्त्यात्मकाः पंचमूलगुणास्ते ज्ञाता ये तूतरगुणास्तान जानीमस्ततः के ते उत्तरगुणा इति मरिराह-- (प्रथम उद्देशोऽसमाप्तः) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 327 328 329 330