Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 327
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I द्वितीयो विभाग श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥ ९८॥ यथा तालद्रुमस्याग्रसूच्या घातो मूलं हंति मूलघातोपि चाग्रं हंति, एवं मूलगुणानां विनाश उत्तरगुणानपि नाशयति, | उत्तरगुणानामपि विनाशो मूलगुणान् तस्मात्मूलगुणातिचाराश्च जिनैः प्रतिक्रुष्टाः, अत्र चोदक आह. यदि मूलगुणानां नाशे ॥ उत्तरगुणानामपि नाश उत्तरगुणानां नाशे मूलगुणानामपि, तस्मात्ततो न खलु नैव मूलगुणा संति, नाप्युत्तरगुणाः यस्मानास्ति | स संयतो, यो मूलोत्तरगुणानामन्यतमं गुणं न प्रतिसेवते, अन्यतमगुणप्रतिसेवने च द्वयानामपि मूलोत्तरगुणानामभावः, | तेषामभावे सामायिकादिसंयमाभावः, तदभावे बकुशादिनिर्गथानामभावस्ततः प्राप्तं तीर्थमचारित्रमिति, अत्र मूरिराह ।। चोयग छक्कायाणं, तु संजमो जाऽणुधावए ताव ॥मूलगुणउत्तरगुणा दोनिवि अणुधावते ताव ॥२८॥ ___ चोदक यावत् षट्जीवनिकायेषु संयमोऽनुधावति, अनुगच्छति, प्रबंधन वर्तते, तावत् मूलगुणा उत्तरगुणाश्च द्वयेप्येते अनुधावंति, प्रबंधेन वर्त्तते, इत्तरसामाइयछेयसंजमा तह दुवे नियंठाय ॥ बउस पडिसेवगातो अणुसज्जते य जा तित्थं ॥२८७॥ यावत् मूलगुणा उत्तरगुणाश्चानुधावति, तावदित्वरसामायिकछेदसंयमावानुधावतः, यावच्चत्वरसामायिकछेदोपस्थापनसंयमो तावद् द्वौ निग्रंथावनुधावतः तद्यथा बकुशः प्रतिसेवकश्च तथाहि यावत् मूलगुणप्रतिसेवना, तावत् प्रतिसेवको, यावदुत्तरगुणप्रतिसेवना, तावद् बकुशः, ततो यावत् तीर्थ तावत् बकुशाः प्रतिसेवकाश्च अनुसज्जति, अनुवर्तते, ततो नाचारित्रं प्रसक्तं प्रवचनमिति, अथ मूलगुणप्रतिसेवनायामुत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशेऽस्ति कश्चिद्विशेष उत नास्ति ? ii|| ८|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 325 326 327 328 329 330